SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir . टी.प.को मा.रा.भ. ॥२२॥ तामिति । घोरसङ्काशा भयङ्करप्रकाशाम् ॥ १०॥ व्यूढे विशाले ॥४१॥४२॥ स इति । त्यतचेतनः मूञ्छित इत्यर्थः ॥ १३-४६ ॥ पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे । हनुमन्तं चक्रुतो विव्याध निशितैः शरैः ॥ ३३ ॥ स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः । त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली ॥ ३४ ॥ तद्यथै शिखरं दृश्वा दुमवर्ष महाकपिः। विससर्ज रणे तस्मिन रावणस्य सुतं प्रति ॥ ३५ ॥ तमापतन्नमाकाशे दुमवर्ष प्रतापवान् । त्रिशिरा निशितैर्बाणैश्चिच्छेद च ननाद च ॥ ३६ ॥ ततो हनूमानुत्प्लुत्य हयांत्रिशिपस्तदा। विददार नखैः क्रुद्धो गजेन्द्र मृगराडिव ॥ ३७॥ अथ शक्तिं समादाय कालरात्रिमित्रान्तकः । चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ॥ ३८॥ दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम् । गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ॥ ३९ ॥ तां दृष्ट्वा घोरसङ्काशां शक्तिं भग्ना हनूमता । प्रहृष्टा वानरगणा विनेदुर्जलदा इव ॥४०॥ ततः खङ्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः । निजघान तदा व्यूढे वायुपुत्रस्य वक्षसि ॥४१॥ खङ्गप्रहाराभिहतो हनूमान मारुतात्मजः। आजघान त्रिशिरसं तलेनोरसि वीर्यवान् ॥४२॥ स तलाभिहतस्तेन स्रस्तहस्तायुधो भुवि । निपपात महातेजा त्रिशिरास्त्यक्तचेतनः ॥ ४३ ॥ स तस्य पततः खङ्गं समाच्छिद्य महाकपिः । ननाद गिरिसङ्काशस्त्रासयन सर्व नैतान् ॥ ४४ ॥ अमृष्यमाणस्तं घोषमुत्पपात निशाचरः। उत्पत्य च हनूमन्तं ताडयामास मुष्टिना ॥ ४५ ॥ तेन मुष्टिप्रहारेण संचुकोप महाकपिः । कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ॥ ४६॥ स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि । क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शकः ॥ १७ ॥ स तस्येति । त्वष्टुः सुतः विश्वरूपः । "विश्वरूपो वै वाष्ट्रः पुरोहितः" इत्यादिश्रुतिप्रसिद्धः ॥ १७॥ दिव इति । असङ्गताम् अनिवारिताम् ॥ ३९ ॥ घोरसकाशा भयङ्करप्रकाशाम् ॥ १-४२ ॥ त्यक्तचेतनः विसंज्ञः, मूछित इत्यर्थः ॥३-४५ ॥ त्वष्टुः सुतस्य ॥२२॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy