________________
Acharya Shri Kalassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
सन्निपत्य देवान्तकं ताडयामासेति संबन्धः ॥१५-२२ ॥ जृम्भित भनमिति यावत्, जृम्भितं तदनुट्वेत्यादिवत् ॥२३-२९॥ तत इति । निसृष्ट
ततोऽङ्गदं परिक्षिप्तं विभिनेत्रतपुङ्गवैः। हनुमानपि विज्ञाय नीलश्चापि प्रतस्थतुः ॥२०॥ ततश्चिक्षेप शैलायं नीलत्रिशिरसे तदा । तद्रावणसुतो धीमान् बिभेद निशितैः शरैः ॥ २१॥ तद्राणशतनिर्भिन्न विदारितशिला तलम् । सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः॥ २२ ॥ ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा । परि घेणाभिदुद्राव मारुतात्मजमाहवे ॥ २३ ॥ तमापतन्तमुत्प्लुत्य हनुमान् मारुतात्मजः। आजघान तदा मूर्ध्नि वचकल्पेन मुष्टिना ॥२४॥ शिरसि प्रहरन वीरस्तदा वायुसुतो बली। नादेनाकम्पयच्चैव राक्षसान् स महाकपिः ॥२५॥ स मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः । देवान्तको राक्षसराजमूनुर्गतासुरुसहसा पपात ॥ २६ ॥ तस्मिन् हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ । क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं ववर्ष नीलोरसि बाणवर्षम् ॥ २७ ॥ महोदरस्तु संक्रुद्धः कुञ्जरं पर्वतोपमम् । भूयः समधिरुह्याशु मन्दरं रश्मिमानिव ॥ २८ ॥ ततो बाणमयं वर्ष नीलस्योरस्यपातयत् । गिरौ वर्ष तडिच्चक्रचापवानिव तोयदः ॥ २९ ॥ ततः शरौधै रभिवर्ण्यमाणो विभिन्नगात्रः कपिसैन्यपालः । नीलो बभूवाथ निसृष्टगात्रो विष्टम्भितस्तेन महाबलेन ॥३०॥ ततस्तु नीलः प्रतिलभ्य संज्ञा शैलं समुत्पाट्य सवृक्षषण्डम् । ततः समुत्पत्य भृशोग्रवेगो महोदरं तेन जघान मूर्ध्नि ॥ ३१ ॥ ततः स शैलेन्द्रनिपातभनो महोदरस्तेन महाद्विपेन । विपोथितो भूमितले गतासुः पपात वज्राभि हतो यथाऽद्रिः॥३२॥ गात्रः शिथिलगात्रः। विष्टम्भितः स्तब्धीकृतः, एतन्निसृष्टत्वे हेतुः ॥ ३० ॥ ३१ ॥ विपोथितः हिंसितः ॥ ३२-३९॥ तत इति । जम्भितं भग्नम् ॥ २३-२५ ॥ निन्तिदन्ताक्षिविलम्बिजिहः दन्ताश्च अक्षिणी च विलम्बिजिह्वा च तथा निर्वान्ताः बहिनिर्गता दन्तादयो यस्योति तथा ॥२६-२९॥ विभिन्नगात्रः धावयवः परवशगात्रो वा । विष्टम्भितः स्तम्भीकृतः ॥ ३०-१८॥
For Private And Personal Use Only