________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
टी.यु.का.
दवत् समभ्यद्रवत् ॥३-१०॥ देवान्तकश्चेति । व्यपचक्राम पश्चादाजगाम ॥ ११ ॥ १२ ॥ अस्य महोदरस्य ॥ १३ ॥ तस्य अङ्गदस्य । तस्य
स त्रिभिर्देवदर्पन्चैनैर्ऋतेन्द्रैरभिद्रुतः। वृक्षमुत्पाटयामास महाविटपमङ्गदः ॥५॥ देवान्तकाय तं वीरश्चिक्षेप सहसाऽङ्गन्दः। महावृक्षं महाशाख शको दीप्तमिवाशनिम् ॥ ६॥ त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः । स वृक्षं कृत्तमालोक्य उत्पपात तदाऽङ्गदः ॥ ७॥ स ववर्ष ततो वृक्षान शैलाश्च कपिकुञ्जरः । तान् प्रचिच्छेद संक्रुद्ध त्रिशिरा निशितैः शरैः ॥८॥ परिघाग्रेण तान् वृक्षान् बभञ्जच सुरान्तकः। त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः ॥ ९॥ गजेन समभिद्रुत्य वालिपुत्र महोदरः। जघानोरसि संक्रुद्धस्तोमरैर्वजसन्निभैः ॥१०॥ देवान्तकश्च संक्रुद्धः परिघेण तदाऽङ्गन्दम् । उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ॥११॥ स त्रिभित्रस्त श्रेष्ठेयुगपत समभि द्रुतः। न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ॥ १२ ॥ स वेगवान महावेगं कृत्वा परमदुर्जयः । तलेन भृश मुत्पत्य जघानास्य महागजम् ॥ १३॥ तस्य तेन प्रहारेण नागराजस्य संयुगे। पेततुलॊचने तस्य विननाद स वारणः ॥ १४॥ विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः। देवान्तकमभिप्लुत्य ताडयामास संयुगे ॥१५॥ स विह्वलितसर्वाङ्गो वातोद्भूत इव द्रुमः। लाक्षारससवर्ण च सुस्राव रुधिरं मुखात् ॥१६॥ अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली । आविध्य परिघं घोरमाजघान तदाऽङ्गदम् ॥ १७॥ परिघाभिहतश्चापि वानरेन्द्रात्मज स्तदा । जानुभ्यां पतितोभूमौ पुनरेवोत्पपात ह ॥ १८॥ तमुत्पतन्तं त्रिशिराबिभिर्बाणैरजिह्मगैः। घोरेहरिपतेः
पुत्रं ललाटेऽभिजघान ह ॥ १९॥ नागराजस्थति द्वितीयतच्छब्दान्वयः॥१४॥ विषाणमिति । महाबलः वालिपुत्रः अस्य महोदवाहनस्य गजस्य विषाणं निष्कृष्य अभिप्लुत्य वेगेन। तमुत्पत्तन्तमिति । अजिह्मगैः ऋजुगामिभिः ॥ १९-२९॥
॥२२
For Private And Personal Use Only