________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
%
६
लोकिका वदन्ति । कान्तामपश्यतो मम तु शोकः अहन्यहनि वर्धते । लौकिकशोकविलक्षणो मम शोक इति भावः ॥ ४॥ ननु शत्रुहृताया दूरे स्थितायास्तस्याःप्रत्याहरणसमर्थस्य तव किं शोकेनेत्याशक्य न तद्विषयोऽयं शोकः किंतूपभोगयोग्यस्य प्रियावयसो वैफल्यानुस्मरणादित्याहन म इति । दुःखमिति । प्रिया दूरे स्थिति मे न दुःखम्, सुग्रीवेण प्रस्थानेन तस्य निवर्त्यत्वात् । प्रबलरक्षसा हृतेति मे दुःखं नास्ति, तस्य तच्छिरः
न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति वा । एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते ॥५॥ वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश। त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥६॥
तन्मे दहति गात्राणि विषं पीतमिवाशये। हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत् ॥७॥ कृन्तनापनोद्यत्वात् । एतदेवानुशोचामि इदमेकमेव शोकनिमित्तम् । वयोऽस्या ह्यतिवर्तते, गतं यौवनं न प्रत्यार्तुं शक्यमिति भावः । अत्र यौवन | मतिवर्तत इति नार्थः, नित्ययौवनत्वात्तस्याः । किंतु वयोऽतिवर्तते, व्यर्थतयैव यातीति भावः । मानुपभावानुसारेण चेदं वचनम् ॥५॥प्रियास्पृष्ट द्रव्यस्पर्शस्य विनोदहेतुत्वात्तत्सम्पादनार्थ वायुं प्रार्थयते-वाहीति। हे वात! मे कान्ता यतः यत्र वसति तत्र वाहि गच्छ। तत्र गत्वा किं करणीयमित्यत्राह तामिति। न चैतदन्यतः सेत्स्यतीति सदृष्टान्तं दर्शयति-दृष्टिसमागमः चन्द्रे यथा चन्द्राधीनः, तथा मे तगात्रसंस्पर्शोऽपि त्वयि त्वधीनः । यथा तदव लोकितं चन्द्रं पश्यन् तत्प्रणालिकया तां दृष्टवानस्मि तद्वत् तदङ्गस्पृष्टं त्वां स्पृशन् तामेव स्पृष्टवान् भवेयमित्यर्थः ॥६॥ न केवलं वयोतिवर्तनस्मरण मेव व्यथाहेतुः, किंतु कारणान्तरमप्यस्तीत्याह-तदिति । तद्वचनं मे आशये हृदये स्थितं सत्, सदा स्मर्यमाणं सदित्यर्थः । पीतं विषमिव गात्राणि वयोऽस्या प्रतिवर्तते मद्भोगसाधनमस्या वयोऽतिवर्तत इत्येतदेवानुशोचामि ॥५॥ इदानीं प्रियजनस्पृष्टद्रव्यस्पर्शस्य कालविनोददेतृत्वात्तत्सम्पादनार्थ वायुं 7 प्रार्थयते-वाहीति । हे वात! कान्ता यतो यत्र वर्तते तं देशं वाहि गच्छ । गत्वा किं करणीयम् ? तबाह तो स्पृष्ट्येति । यद्वा यतो यत्र कान्ता वर्तते तत्र वाहि सवर स्वात्मानं स्पृशन्तं वायुं प्रत्येवमुक्तम्, मद्गात्रसंस्पर्शस्तस्यास्सिद्धयेदिति भावः । तां स्पृष्ट्वा मामपि स्पृशेत्यनेन तस्याः स्पर्शस्सिद्धचतीत्युक्तम् । न चैतदन्यतः सेत्स्यतीति सदृष्टान्तं दर्शयति त्वयीति । दृष्टिसमागमः चन्द्रे चन्द्राधीनो यथा तथा मे तगात्रसंस्पशोऽपि त्वयित्वदधीनः । यथा चन्द्रं पश्यन तत्प्रणालिकया तो दृष्टवानस्मि, तद्वत्तदास्पृष्टं त्वां स्पृशन तामेव स्पृष्टवान् भवेयमित्यर्थः ॥ ६॥ आशये उदरे, स्थितमिति शेषः । यद्वा आशये हृदये स्थितं हा नाथेति तद्वचनमित्यन्वयः॥७॥
।
For Private And Personal Use Only