________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भा.रा.भ.
तत इति । विशेषाभिधानार्थत्वान्न पुनरूक्तिः । प्रान्तोर्मिजलसन्नादमिति । घूर्णिततरङ्गजलसन्नादो यस्मिन् तम् । प्रलोलमिव उद्घान्तमिव
तत M॥ १२५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुर्थः सर्गः॥ ४॥
ततो विस्मयमापन्ना ददृशुर्हरयस्तदा। भ्रान्तोर्मिजलसन्नादं प्रलोलमिव सागरम् ॥ १२५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे चतुर्थः सर्गः ॥४॥ सातु नीलेन विधिवत् स्वारक्षा सुसमाहिता । सागरस्योत्तरे तीरे साधु सेना निवेशिता ॥१॥ मैन्दश्च द्विविदश्वोभौ तत्र वानरपुङ्गवौ । विचरतुश्च तां सेनां रक्षार्थ सर्वतो दिशम् ॥२॥ निविष्टायां तु सेनायां तीरे नदनदीपतेः । पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत् ॥ ३॥
शोकश्च किल कालेन गच्छता ह्यपगच्छति । मम चापश्यतः कान्तामहन्यहनि वर्धते ॥४॥ एवं कृतज्ञत्वमित्रानुरोधित्वपरीक्ष्यकारित्वमहोत्साहत्वादिशरण्यत्वोपयिका रामगुणा दर्शिताः । अथ रामस्य कारुण्यरूपं प्रधानगुणं दर्शयितुं सर्गा न्तरमारभते-सा त्विति । स्वारक्षा आ समन्ताद्रक्षन्तीत्यारक्षाः, शोभनाः आरक्षाः यस्याः सा तथोक्ता। विधिवत् नीतिशास्त्रोक्तरीत्या । सुसमाहिता निराकुला निवेशिता ॥१॥ मैन्द इति । दिशमिति जात्येकवचनम् । दिश इत्यर्थः । 'उभसर्वतसोः' इत्यादिना द्वितीया । सर्वत इति सप्तम्यर्थे तसि दिशा सर्वेषु प्रदेशेष्पित्यर्थः ॥२॥३॥ समुद्रवेलावनायुद्दीपकदर्शनादुद्भूतं विरहशोकं सोढुमशक्नुवन् सौमित्रि प्रत्याइ-शोकश्चेत्यादिना । प्रथम वकारोऽवधारणे द्वितीयस्त्वर्थः । शोकः इष्टवस्त्वन्तरवियोगजानितः शोकः । गच्छता कालेन अपगच्छति, किलेत्येति । गच्छत्येवेति प्रसिद्धमिति । प्रलोलमिव उद्धान्तमिव ॥ १२५॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां चतुर्थः सर्गः ॥४॥ सा स्विति । स्वारक्षा MI आ समन्ताद्रक्षन्तीत्यारक्षाः, शोभना आरक्षा यस्यास्सा ॥१॥ मैन्दश्चेति । दिशमिति जात्येकवचनम् । षष्ठचर्ये द्वितीया । दिशा सर्वतः दिशा सर्वेषु प्रदेशे वित्यर्थः ॥२॥ ३॥ समुद्रवेलावनायुदीपकवस्त्रदर्शनासुद्धविरहवेगं सोटुमशक्नुवन वाचा विषणोति-कोकवेत्यादि । मम चेत्पन चस्त्वर्थे । इष्टवस्वन्तरण वियोगजनितः शोका कालेनापगच्छति । प्रियाविरहजनितस्तु न तथेत्यर्थः ॥४॥
For Private And Personal Use Only