SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जघानेति । इत्थमिति शेषः ॥ ७०-७३ ॥ ज्वलन्तं ज्वलन्तमिव स्थितम् । विभावसुः वह्निः ॥ ७४ ॥ ७५ ॥ प्रमृजन् मर्दयन् ॥ ७६ ॥ न शेकुरिति । स वानरान् सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद । एकक्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुङ्गवानाम् ॥ ७० ॥ ददृशुश्च महात्मानं हयष्पृष्ठे प्रतिष्ठितम् । चरन्तं हरिसैन्येषु विद्याधरमहर्षयः ॥ ७१ ॥ स तस्य ददृशे मार्गो मांसशोणितकर्दमः । पतितैः पर्वताकारैर्वानरैरभिसंवृतः ॥ ७२ ॥ यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः । तावदेतानतिक्रम्य निर्बिभेद नरान्तकः ॥ ७३ ॥ ज्वलन्तं प्रासमुद्यम्य सङ्ग्रामाग्रे नरान्तकः । ददाह हरिसैन्यानि वनानीव विभावसुः ॥ ७४ ॥ यावदुत्पाटयामासुर्वृक्षान् शैलान् वनौकसः । तावत् प्रासहताः पेतुर्वज्रकृत्ता इवा चलाः ॥ ७५ ॥ दिक्षु सर्वासु बलवान् विचचार नरान्तकः । प्रमृगन सर्वतो युद्धे प्रावृट्काले यथाऽनिलः ॥ ७६ ॥ न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं भयात् । उत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान् ॥७७॥ एकेना न्तककल्पेन प्रासेनादित्यतेजसा । भिन्नानि हरिसैन्यानि निपेतुर्धरणीतले ॥ ७८ ॥ वज्रनिष्पेषसदृशं प्रासस्याभि निपातनम् । न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ॥ ७९ ॥ पततां हरिवीराणां रूपाणि प्रचकाशिरे । वज्र भिन्नाग्रकूटानां शैलानां पततामिव ॥ ८० ॥ ये तु पूर्व महात्मानः कुम्भकर्णेन पातिताः । ते स्वस्था वानरश्रेष्ठाः सुग्रीव तस्थिरे ॥ ८१ ॥ विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम् । नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः ॥ ८२ ॥ विद्वतवाहिनीं दृष्ट्वा स ददर्श नरान्तकम् । गृहीतप्रासमायान्तं हयष्टष्ठे प्रतिष्ठितम् ॥ ८३ ॥ अथोवाच महा तेजाः सुग्रीवो वानराधिपः । कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ॥ ८४ ॥ यतो हेतोरुत्पतन्तं स्थितं यान्तं च विव्याध अतः स्पन्दनादौ न शेकुरित्यर्थः ॥ ७७-८० ॥ कुम्भकर्णेन पातितानां नीलादीनामुत्तरत्र पौरुप स इति । तस्य मार्गः तेन युद्धायें गतो मार्ग इत्यर्थः । पतितैर्वानरैरभिसंवृतस्सद् मांसशोणितकर्दमस्सन दहश इति सम्बन्धः ॥ ७२०८६॥ २१४ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy