________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
त्वचाचम्पकमुस्ताश्च सर्वोषध्यो दश स्मृताः॥" इत्युक्ताभिः आयुधप्रहारनिवर्तिकाभिः ओषधीभिरित्याहुः । समालभ्य समालिप्य ॥ १८-२० ॥ अस्तमूर्धनीत्येतदुत्तरक्षणे विनाशसूचनाय॥२१-२३॥ त्रिभिः काञ्चनपर्वतैः शिखरभूतहिमवानिवेत्यर्थः॥२४॥ अतिकाय इत्यादिश्लोकद्वयमेकान्वयम् । त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ । महोदरमहापार्यो निर्जग्मुः कालचोदिताः ॥ १९ ॥ ततः सुदर्शनं नाम नीलजीमूतसन्निभम् । ऐरावतकुले जातमारोह महोदरः॥२०॥ सर्वायुधसमायुक्तं तूणीभिश्च स्वलंकृतम् । रराज गजमास्थाय सवितेवास्तमूर्धनि ॥२१॥ हयोत्तमसमायुक्तं सर्वायुधसमाकुलम् । आरुरोह स्थश्रेष्ठं त्रिशिरा रावणात्मजः॥ २२ ॥ त्रिशिरा रथमास्थाय विरराज धनुर्धरः । सविधुदुल्कः शैलाये सेन्द्रचाप इवाम्बुदः ॥ २३॥ त्रिभिः किरीटैः शुशुभे त्रिशिराः स रथोत्तमे। हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ॥ २४ ॥ अति कायोऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा। आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ॥ २५॥ सुचक्राक्षं सुसंयुक्तं स्वनु कर्ष सुकूवरम् । तूणीबाणासनैर्दीप्तं प्रासासिपरिघाकुलम् ॥२६॥स काञ्चनविचित्रेण मुकुटेन विराजता । भूषणैश्च बभौ मेरुः किरणैरिव भासयन् ॥ २७॥ स रराज रथे तस्मिन् राजमूनुर्महाबलः । वृतो नतशार्दूलवेजपाणि रिवामरैः ॥२८॥ हयमुच्चैश्श्रव प्रख्यं श्वेतं कनकभूषणम् । मनोजवं महाकायमारुरोह नरान्तकः ॥२९॥
गृहीत्वा प्रासमुल्कामं विरराज नरान्तकः । शक्तिमादाय तेजस्वी गुहः शिखिगतो यथा ॥३० ॥ सुसंयुक्तं सुदृढम् । स्वनुकर्षम् । “अनुकर्षो दार्वधःस्थम्" इत्यमरः । सुकूबरं शोभनयुगंधरम् । “कूबरस्तु युगन्धरः" इत्यमरः ॥२६॥२६॥ किरणैः। ओषधीभिः आयुधप्रहारनिवारकोषधविशेषैः। ओषधयस्तु-" कोष्ठं मांसी हरिद्रे द्वे भुरा शैलेयचन्दने । त्वचाचम्पकमुस्ताश्च सर्वोषध्यो दश स्मुताः॥" इति ॥१८-२३॥ त्रिमिरिति । त्रिभिः काञ्चनपर्वतैः शिखरभूतेः हिमवानिवेत्यर्थः ॥२४॥२५॥ सुचक्राक्षमिति । स्वनुकर्षम् "अनुकर्षो दाबंधास्थम्" इत्यमरः। मुकवरं शोभनयुगन्धरम् ॥ २६-३०॥
For Private And Personal Use Only