SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir चारा.म. ॥२१॥ स०६ श्रुत्वेति । त्रिशिरसो वचनं स्वेषामपि तुल्यत्वाद्देवान्तकादयोऽपि युद्धोद्युक्ता बभूवुरित्यर्थः॥९॥१०॥ अन्तरिक्षे गतं गमनं येषां तेऽन्तरिक्षगताः॥११॥ देवादिभिः सह समरमासाद्य पराजिता न श्रूयन्त इत्यन्वयः ॥१२॥ विदुषः विद्यावन्तः। प्रवरविज्ञानाः उत्कृष्टशास्त्रज्ञानाः ॥१३॥ तुल्यवर्चसैरित्यत्र श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ । अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः॥ ९॥ ततोऽहमहमित्येव गर्जन्तो नैर्ऋतर्षभाः। रावणस्य सुता वीराःशक्रतुल्यपराक्रमाः॥१०॥ अन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः। सर्वे त्रिदशदर्पन्नाः सर्वे च रणदुर्जयाः ॥ ११॥ सर्वे सुबलसम्पन्ना मार्णिकीर्तयः । सर्वे समरमासाद्य न श्रूयन्ते पराजिताः। देवैरपि सगन्धर्वेः सकिन्नरमहोरगैः ॥ १२॥ सर्वे च पिदुमो वीराः सर्वे युद्धविशारदाः। सर्वे प्रवरविज्ञानाः सर्वे लब्धवरास्तथा ॥ १३ ॥ स तैस्तदा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुवलप्रमर्दनैः। रराज राजा मघवान् यथाऽमरैर्वृतो महादानवदर्पनाशनः ॥ १४ ॥ सपवान सम्परिष्वज्य भूषयित्वा च भूषणैः। आशीभिश्च प्रशस्ताभिः प्रेषयामास संयुगे ॥ १५॥ युद्धोन्मत्तं च न च भ्रातरौ चापि रावणः । रक्षणार्थं कुमाराणां प्रेषयामास संयुगे॥ १६॥ तेऽभिवाद्य महात्मानं रावणं रिपुरावणम् । कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ॥१७॥ सर्वोषधीभिर्गन्धैश्च समालभ्य महाबलाः । निर्जग्मुर्नर्ऋतश्रेष्ठाः षडेते युद्धकाक्षिणः ॥ १८॥ समासान्त आर्षः ॥१४॥ स इति । आशीभिः, सहेति शेषः ॥ १५ ॥ युद्धोन्मत्तमिति । अत्र युद्धोन्मत्तमत्ती महोदरमहापार्श्वपर्यायनामानौ रावणभातरौ । एतो परत्र प्रकाशयिष्यते ॥ १६ ॥ रिपून राक्यतीति रिपुरावणः ॥ १७ ॥ सर्वोषधीभिः “कोष्ठं मांसी हरिद्रे द्वे सुरा शैलेयचन्दने । हतो भौमः । शम्बर इत्यस्य वास्तवार्थस्तु-अराम इति छेदः । अरामो रामव्यतिरिक्तः कश्चनाद्य मया युद्धे निपातितः शयिता । रामस्यासाचत्वादिति भावः ७-१०॥ अन्तरिक्षगता अन्तरिक्षे गतं गमनं येगा ते ॥११-१५ ॥ युद्धोन्मत्तमत्तशब्दो महोदरमहापाचयोः पर्यायनामनी ॥ १६-१७॥ सर्वोषधीमिरिति २१॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy