________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मारभ्य विभीषणवचो मां वीडयति पीडयतीत्यर्थः ॥ २२-२४ ॥इति श्रीगोविन्द श्रीरामारलबकाण्डव्याख्याने अष्टषष्टितमः सर्गः ॥
५M अयातिकायनिर्गमः-एवमित्यादि ॥१॥ एवमिति । तातमध्यमः तातेषु मध्यमः, मध्यमपितेत्यर्थः । एवमेव महावीर्यः त्वदुतप्रकारेणेव महावीर्यः इति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम् । न्यपतदय दशाननो भृशार्तस्तमनुजूमिन्द्ररिपुं हतं विदित्वा ॥ २४॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टषष्टितमः सर्गः॥६८॥ एवं विलपमानस्य रावणस्य दुरात्मनः। श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ॥१॥ एवमेव महावीयों हतो नस्तातमध्यमः। न तु सत्पुरुषा राजन विलपन्ति यथा भवान् ॥२॥ नूनं त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो। म कस्मात् प्राकृत इव शोचस्यात्मानमीदृशम् ॥३॥ ब्रह्मदत्ताऽस्ति तेशक्तिः कवचःसायको धनुः। सहस्त्र खरसंयुक्तो रथो मेघस्वनो महान् ॥ ४॥ त्वयाऽसकृद्विशस्त्रेण विशस्ता देवदानवाः। स सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि ॥५॥कामं तिष्ठ महाराज निर्गमिष्याम्यहं रणम् । उद्धरिष्यामि ते शत्रून् गरुडः पनगानिव ॥६॥ शम्बरो देवराजेन नरको विष्णुना यथा । तथाऽद्य शयिता रामो मया युधि निपातितः ॥ ७॥ श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः। पुनर्जातमिवात्मानं मन्यते कालचोदितः ॥८॥ इतः, देवादिति शेषः॥२॥ ईदृझमिति शोकक्रियाविशेषणम् । आत्मानम्, उद्दिश्येति शेषः॥३॥ ब्रह्मदत्तेत्यादिचोकद्वयमेकान्वयम् । विशण। निरायुषेन ॥४-६॥ शम्बर इति । नरकोऽत्र सिंहिकायां विप्रचित्तेर्जातेषु वातापिप्रमुखेष्वन्यतमः । “वातापिनमुचिव इल्वलः समरस्तथा। अन्धको Mनरक व कालनाभस्तथैव च ॥" इत्युक्तेन तु कृष्णहतो भूतो नरकासुरः। तस्य वाल्मीकिप्रबन्धनिर्माणकाले असआतत्वात् ॥ ७॥८॥
इतीति । कुम्भकर्ण इतं 'निकृत्तकण्ठोरुभुजः' इत्याधुक्तप्रकारेण विचित्रवध प्राप्त विदित्वा बहु विलप्य न्यपतदिति सम्बन्धः ॥२४॥ इति श्रीमहेन्चरतीर्थ विरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायाम् अष्टषष्टितमः सर्गः ॥८॥१॥ एवमेव महावीर्यः 'देवदानवदर्पहा । कालानिकद्रमतिमः
इत्यायुक्तमकारेण महावी हता, देवादिति कोषः । सत्पुरुषाः शूराः ॥२-६ ॥ शम्बर इति । नरको विष्णुना यथा, अयं नरका सिंहिकापो विमपितेर्जाते ॥ लापूवेन्यन्यतमः । तदुक्तं विष्णुपुराणे-" वातापिनमुचिश्चैव इल्वला हमरस्तथा । अन्धको नरकमेव कालनामस्तथैव च।" इति स उच्यते । नतु यानायकेन।
For Private And Personal Use Only