________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अप्ययमिति । भारः-वानरारोहणरूपः॥ ११८॥ ११९॥ कुम्भकर्णस्त्विति । स्पष्टः ॥ १२०॥ तानिति । निर्धतानिति हस्व आर्षः ॥ १२१॥ क्रोधताम्रेत्यादिसार्घश्लोकमेकं वाक्यम् ॥१२२॥ स चापमिति । निबद्धोत्तमतूणबाणः निबद्धोत्तमबाणतूण इत्यर्थः ॥ १२३ ॥ १२४ ॥ स ददत्यादि
अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः। प्रपतन राक्षसो भूमौ नान्यान हन्यात् प्लवङ्गमान् ॥ ११८ ॥ तस्य तद्र चनं श्रुत्वा राजपुत्रस्य धीमतः। ते समारुरुहुर्हृष्टाः कुम्भकर्ण प्लवङ्गमाः ॥११९॥ कुम्भकर्णस्तु संक्रुद्धः समा रूढः प्लवङ्गमैः । व्यधूनयत्तान वेगेन दुष्टहस्तीव हस्तिपान् ॥ १२०॥ तान् दृष्ट्वा निर्धतान रामो दुष्टोऽयमिति राक्षसः। समुत्पपात वेगेन धनुरुत्तममाददे ।। १२१ ॥ क्रोधताप्रेक्षणो वीरो निर्दहन्निव चक्षुषा । राघवो राक्षसं रोषादभिदुद्राव वेगितः। यूथपान् हर्षयन सर्वान कुम्भकर्णभयार्दितान् ॥ १२२ ॥ स चापमादाय भुजङ्गकल्पं दृढ़ज्यमुग्रं तपनीयचित्रम् । हरीन समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणबाणः ॥ १२३ ॥ स वानर गणेस्तैस्तु वृतः परमदुर्जयः । लक्ष्मणानुचरो रामः सम्प्रतस्थे महाबलः ॥ १२४ ॥ स ददर्श महात्मानं किरीटिनमरिन्दमम् । शोणिताप्लुतसर्वाङ्गं कुम्भकर्ण महाबलम् ॥ १२५ ॥ सर्वान समाभधावन्तं यथा रटं दिशा गजम् । मार्गमाणं हरीन क्रुद्धं राक्षसैः परिवारितम् ॥ १२६ ॥ विन्ध्यमन्दरसङ्काशं काश्चनाङ्गदभूषणम् । स्रवन्तं रुधिरं वक्त्रादर्षमेघमिवोत्थितम् ॥ १२७ ॥ जिह्वया परिलिह्यन्तं शोणितं शोणितेक्षणम् । मृदन्तं वानरानीकं कालान्तकयमोपमम् ॥ १२८ ॥ तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम् । विस्फारयामास तदा कार्मुकं पुरुषर्षभः
॥ २९॥ स तस्य चापनि?षात् कुपितो राक्षसर्षभः। अमृष्यमाणस्तं घोषमभिदुद्राव राधवम् ॥१३॥ चतुःश्लोक्येकान्वया । कालान्तकयमोपमम्, रुदस्त्रिनेत्रस्त्रिपुरान्तको वेतिवत् एकस्यैवावस्थाभेदात् कालादिनामभेदः । यद्वा काले युगान्तकाले अन्तको नाशको यमः उपमा यस्य स तथोक्तः॥ १२५-१३१॥ भारप्रपीडितः भारः वानरारोहणभारः ॥ ११८-१२७ ॥ कालान्तकयमोपमं 'रुद्रस्त्रिनेत्रास्त्रिपुरान्तकः' इतिवदेकस्यैवावस्थाभेदात्कालादिनामभेदः ॥१२८-१३१॥
For Private And Personal Use Only