SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyamandir टी.यु.कां. ॥२१॥ स्पष्टम् ॥ १०२-१०५॥ आर्चिषः ज्वालाः ॥ १०६॥१०७॥ तस्येति सार्घः । बर्हिणवाससः बहिणं बार्हपत्रं वासो वासःस्थानं येषां ते तथोक्ताः। अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः । राममेवाभिदुद्राव दारयन्निव मेदिनीम् ॥ १०४॥ अथ दाशरथी रामो रौद्रमखं प्रयोजयन् । कुम्भकर्णस्य हृदये ससर्ज निशितान शरान् ॥१०५॥ तस्य रामेण विद्धस्य सहसा ऽभिप्रधावतः। अङ्गारमित्राः क्रुद्धस्य मुखानिश्चेरर्चिषः ॥ १०६॥ रामास्त्रविद्धो घोरं वै नदन राक्षसपुङ्गवः । अभ्यधावत संक्रुद्धो हरीन विद्रावयन रणे ॥ १०७॥ तस्योरसि निमग्राश्च शरा बर्हिणवाससः । हस्ताच्चापि परि भ्रष्टा पपातो- महागदा। आयुधानि च सर्वाणि विप्राकीर्यन्त भूतले ॥ १०८॥ स निरायुधमात्मानं यदा मेने महाबलः । मुष्टिभ्यां चरणाभ्यां च चकार कदनं महत् ॥१०९॥ स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः । रुधिरं प्रतिसुनाव गिरिःप्रस्रवणं यथा ॥११०॥ स तीवेण च कोपेन रुधिरेण च मूञ्छितः । वानरान राक्षसानृक्षान खादन विपरिधावति ॥१११॥ अथ शृङ्गं समाविध्य भीमं भीमपराक्रमः। चिक्षेप राममुद्दिश्य बलवानन्तकोपमः॥११२॥ अप्राप्तमन्तरा रामः सप्तभिस्तैरजिह्मगैः । शरैः काञ्चनचित्राङ्गैश्चिच्छेद पुरुषर्षभः ॥ ११३ ॥ तन्मेरुशिखराकार द्योतमानमिव श्रिया । द्वे शते वानरेन्द्राणां पतमानमपातयत् ॥११४॥तस्मिन् काले स धर्मात्मा लक्ष्मणो वाक्यमब्रवीत्। कुम्भकर्णवधे युक्तो योगान परिमृशन बहून् ॥ ११५॥ नैवायं वानरान् राजन्नापि जानाति राक्ष सान् । मत्तः शोणितगन्धेन स्वान परांश्चैव खादति ॥ १६॥ साध्वेनमधिरोहन्तु सर्वे ते वानरर्षभाः। यूथपाश्च यथा मुख्यास्तिष्ठन्त्वस्य समन्ततः॥ ११७॥ आयुधानि खगादीनि ॥१०८॥ कदनम्, वानराणामिति शेषः ।। १०९॥ १०॥स तीवेणेति । मूञ्छितः व्याप्तः ॥ १११-११३॥ देशते उद्दिश्य पतमानं गच्छन्तम् अपातयत्, शरैरिति शेषः॥११॥ योगान् परिमृशन् उपायान् विचारयन् ॥११५॥११६॥ साध्विति । यथा यथायोग्यम् ॥११७॥ ककहरू ॥२१॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy