________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
विमर्दितः सम्पीडितः॥ ८८॥ ८९ ॥ प्रधवणेः निरः ॥९० ॥ अभिमुखः सन् युद्धाय मनश्चक इति सम्बन्धः ।। ९१-९४ ॥ बुभुक्षित इति । शोणितमांसगृनुः शोणितमांसलोलुपः॥ ९५-९७ ॥ सम्प्रस्रवत्रिति । सम्प्रत्रवन तालुभ्यामुदमन् । शोणितं मेदश्च भाक्षितवानरसंबन्धि ॥ ९८॥d कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः । रराज शोणितैः सिक्तो गिरिः प्रस्रवणरिव ॥ ९० ॥ शोणिताों महाकायो राक्षसो भीमविक्रमः । युद्धायाभिमुखी भृयो मनश्चक्रे महाबलः ॥९॥ अमर्षाच्छोणितोदारी शुशुभे रावणानुजः। नीलाञ्जनचयप्रख्यः ससन्ध्य इव तोयदः॥ ९२ ॥ गते तु तस्मिन् सुरराजशत्रुः क्रोधात् प्रदुद्राव रणाय भूयः। अनायुधोऽस्मीति विचिन्त्य रौद्रो वोरं तदा मुद्रमाससाद ॥ ९३ ॥ ततः स पुर्याः सहसा महौजा निष्कम्य तदानरसैन्यमुग्रम् । बमक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव. प्रदीप्तः ॥९४॥ बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद्वानरसैन्यमुग्रम् । चखाद रक्षांसि हरीन पिशाचानृक्षांश्च मोहाधुधि कुम्भकर्णः ॥९५॥ यथैव मृत्युहरते युगान्ते स भक्षयामास हरीश्च मुख्यान् ॥ ९६ ॥ एक द्वे त्रीन बहून क्रुद्धो वानरान सह राक्षसैः समादायकहस्तेन प्रचिक्षेप त्वरन् मुखे ॥ ९७॥ सम्प्रस्रवस्तदा मेदः शोणितं च महाबलः। वध्यमानो नगेन्द्रायैर्भक्षयामास वानरान् ॥९८ ॥ ते भक्ष्यमाणा हरयो राम जग्मुस्तदा गतिम् ॥ ९९॥ कुम्भकर्णो भृशं क्रुद्धः कपीन् खादन् प्रधावति ॥१०॥ शतानि सप्त चाष्टौ च विंशत्रिंशत्तथैव च । सम्परिष्वज्य बाहुभ्यां खादन् विपरिधावति ॥१०१॥ तस्मिन् काले सुमित्रायाः पुत्रः परवलादनः। चकार लक्ष्मणः क्रुद्धो युद्धं परपुरञ्जयः
॥ १०२॥ स कुम्भकर्णस्य शरान शरीरे सप्त वीर्यवान् । निचखानाददे बाणान विससर्ज च लक्ष्मणः ॥ १०३॥ त इत्यर्धम् । गतिं शरणम् ॥ ९९ ।। कुम्भकर्ण इत्यर्धम् । प्रधावति प्राधावत् । उत्तरशोकेऽप्येवमेव ॥१०॥१०॥ तस्मिन् काल इत्यादि । रुदरपार्श्वयोश्च, पादाभ्यो विददारेति शेषः ॥८७-९७॥ शोणितं भक्षितानां वानरादीनां सम्बन्धि । संप्रम्रवन ओष्ठाभ्यामुद्रमन् ॥१८॥ गतिं शरणम् ॥९९-११॥
A
For Private And Personal Use Only