________________
Sh Maha
Jain Aradhana Kendra
www.kcbatrn.org
Acharya Shri Kalassagarsun Gyanmandir
तमिति। समुन्मुखः अभिमुखः॥१४-१८॥प्रजापतेरिति । इदमवैतिधमनुसन्धेयम्-पुरा किल ब्रह्मणो जम्भमाणस्य वदनारक्षरजा नाम वानरो॥ जातः । स कदाचित् पर्यटन् ब्रह्मलोकेऽप्सरोरूपकारिणि कस्मिंश्चित् सरसि निमज्ज्याप्सरोरुपमभजत् । तां दृष्ट्वा काममोहिताविन्द्रादित्यो हस्तेन
तमापतन्तं बुद्धा तु युद्धमार्गविशारदः । लाधवान्मोचयामास बलवान् वानरर्षभः ॥४८॥ उत्पत्य चैनं सहसा तलेनोरस्यताडयत्। स तेनाभिहतः कोपात् प्रमुमोहाचलोपमः॥४९॥ स लब्धसंज्ञो बलवान मुष्टिमावर्त्य राक्षसः । अपहासेन चिक्षेप विसंज्ञः स पपात ह ॥५०॥ तस्मिन् प्लवगशार्दूले विसंज्ञे पतिते भुवि । तच्छूलं समुपादाय सुग्रीवमभिदुद्वे ॥५१॥ तमापतन्तं सम्प्रेक्ष्य कुम्भकर्ण महाबलम् । उत्पपात तदा वीरः सुग्रीवो वानराधिपः ॥५२॥ पर्वताग्रं समुत्क्षिप्य समाविध्य महाकपिः। अभिदुद्राव वेगेन कुम्भकर्ण महाबलम् ॥ ५३॥ तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवङ्गमम् । तस्थौ विकृतसङ्गो वानरेन्द्रसमुन्मुखः ॥ ५४॥ कपिशोणितदिग्धाङ्ग भक्ष यन्तं प्लवङ्गमान् । कुम्भकर्ण स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ॥ ५५॥ पातिताश्च त्वया वीराः कृतं कर्म सुदु ष्करम् । भाक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ॥५६॥ त्यज तदानरानीकं प्राकृतैः किं करिष्यसि । सह स्वैकनिपातं मे पर्वतस्यास्य राक्षस ॥५७॥ तदाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् । श्रुत्वा राक्षसशार्दूल:
कुम्भकर्णोऽब्रवीद्वचः ॥५८॥ प्रजापतेस्तु पौत्रस्त्वं तथैवःरजस्सुतः। श्रुतपौरुषसम्पन्नः कस्मागर्जसि वानर॥५९॥ युगपदगृह्णीताम् । तत्रान्तरे तयोः क्षुभितं रेतोऽपतत् । तत्र द्वौ कुमारावभवताम् । वाले पतनादाली । ग्रीवायां पतनात सुग्रीवः । तं दृष्ट्वा प्रहस्य ब्रह्मा अप्सरोरूपधारिणम् ऋक्षरजसं यथापूर्वरूपप्राप्तये कुमारौ गृहीत्वा अन्यस्मिन् वानररूपकारिणि सरसि निमजेत्यभ्यधात् । सोऽपि तथा कृत्वा । कुमाराभ्यां सह वानररूपमभजहक्षरजाः । तत्पुत्रौ वालिसुग्रीवाविति । तदनेन प्रकारेण सुग्रीवः प्रजापतेः पौत्रः ऋक्षरजसः पुत्रश्च । काश्यपात प्रजापतेस्त पौत्र इति । चतुर्मुखब्रह्मजृम्भणजनितऋक्षरजःपुत्रत्वानुग्रीवस्य ब्रह्मपौत्रत्वम् ॥ ५९-६१ ॥
For Private And Personal Use Only