________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
युगान्तेति । युगान्तमेघस्य स्तनितरूपो यः स्वनः तत्तुल्यमिति क्रियाविशेषणम् ॥ २० ॥ कुम्भकर्णात् भयार्ता इत्यन्वयः । संयति युद्धे ॥ २१ ॥ पर्यवस्थापयन् बलमिति पलायमानान् सन्निवर्तयन्नित्यर्थः ॥ २२ ॥ व्यशीर्यत शीर्णमभूत् ॥ २३-२५ ॥ पादैः प्रहारोद्यतैः । सर्वत्रोपलक्षणे तृतीया
ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य । प्लवङ्गमास्तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात् ॥ २१ ॥ ततस्तु नीलो बलवान् पर्यवस्थापयन् बलम् । प्रविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते ॥ २२ ॥ तमापतन्तं सम्प्रेक्ष्य मुष्टिनाभिजघान ह। मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत ॥ २३ ॥ सविस्फुलिङ्ग सज्वालं निपपात महीतले । ऋषभः शरभो नीलो गवाक्षो गन्धमादनः ॥ २४ ॥ पञ्च वानरशार्दूलाः कुम्भकर्ण मुपाद्रवन् ॥ २५ ॥ शैलेवृक्षेस्तलैः पादैर्मुष्टिभिश्च महाबलाः । कुम्भकर्ण महाकायं सर्वतोऽभिप्रदुद्रुवुः ॥ २६ ॥ स्पर्शानिव प्रहारांस्तान वेदयानो न विव्यथे । ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे ॥ २७ ॥ कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः । निपपातर्षभो भीमः प्र मुखाद्वान्तशोणितः ॥ २८ ॥ मुष्टिना शरभं हत्वा जानुना नील माहवे । आजघान गवाक्षं तु तलेनेन्द्ररिपुस्तदा ॥ २९ ॥ पादेनाभ्यहनत् क्रुद्धस्तरसा गन्धमादनम् । दत्तप्रहार व्यथिता मुमुहुः शोणितोक्षिताः ॥ ३० ॥ निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः । तेषु वानरमुख्येषु पतितॆषु महा त्मसु । वानराणां सहस्राणि कुम्भकर्णे प्रदुदुवुः ॥ ३१ ॥ तं शैलमिव शैलाभाः सर्वे ते प्लवगर्षभाः । समारुह्य समुत्पत्य दर्दशुश्च महाबलाः ॥३२॥ तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा । कुम्भकर्ण महाकायं ते जघ्नुः प्लवगर्षभाः ॥ ३३ ॥
॥ २६ ॥ स्पर्शानिव सुखस्पर्शानिव, सुखमर्दनमिव जानन्नित्यर्थः ॥ २७ ॥ प्र इति छेदः । मुखात् वान्तशोणितः प्रणिपपातेत्यन्वयः । “व्यवहिताश्व” || इत्युपसर्गस्यं व्यवहितप्रयोगः । वान्तशोणितः उद्गीर्णरक्तः ॥ २८-३१ ॥ समारुह्य समुत्पत्य, समुत्पत्य समारुह्येति क्रमः ॥ ३२ ॥ ३३ ॥
For Private And Personal Use Only