________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥२०७॥
Mस..
वा.रा.भू. विशेषेण लम्बत इति विलम्बः । पचायच् । गिरिशृङ्गाभं गिरिशृङ्गवदुन्नतम् ॥९॥ तं कुम्भकर्ण समुत्पत्य समीपमागत्य । कुम्भकर्णस्य कुम्भकर्णाया टी.यु,को. M०॥ममर्दैत्यादि त्रिपादश्शोकः। तानि प्रसिद्धानि । रक्षांसि ममर्देति पूर्वेणान्वयः। पुनश्चेति पादश्लोकः। अन्यत् गिरेःशृङ्ग चिक्षेपेति योज्यम् ॥११
ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः । दुद्राव गिरिशृङ्गाभं विलम्ब इव तोयदः ॥ ९॥ तं समुत्पत्य चिक्षेप कुम्भकर्णस्य वानरः । तमप्राप्तो महाकायं तस्य सैन्येऽपतत्तदा ॥१०॥ ममर्दाश्वान गजाश्चापि रथांश्चैव नगोत्तमः। तानि चान्यानि रक्षांसि पुनश्चान्यगिरेः शिरः ॥ ११॥ तच्छैलगृङ्गाभिहतं हताश्वं हतसारथि। रक्षसां रुधिरक्किन्नं बभूवायोधनं महत् ॥ १२॥ रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः। शिरांसि नदतां जहः सहसा भीमनिस्वनाः ॥ १३॥ वानराश्च महात्मानः समुत्पाटय महामान् । स्थानश्वान् गजानुष्ठान राक्षसानभ्यसूदयन् ॥ १४॥ हनुमान शैलशृङ्गाणि वृक्षांश्च विविधान् बहून् । ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः ॥१५॥ तानि पर्वतगृङ्गाणि शूलेन स बिभेद ह । बभञ्ज वृक्षवर्ष च कुम्भकर्णो महाबलः ॥ १६॥ ततो हरीणां तदनीकमुग्रं दुद्राव मूलं निशितं प्रगृह्य । तस्थौ ततोऽस्यापततः पुरस्तान्महीधराग्रं हनुमान प्रगृह्य ॥ १७ ॥ स कुम्भकर्ण कुपितो जघान वेगेन शैलोत्तमभीमकायम् । स चुक्षुभे तेन तदाऽभिभूतो मेदागात्रो रुधिरावसिक्तः ॥१८॥स शूलमाविध्य तडित्प्रकाशं गिरि यथा प्रज्वलिताग्रशृङ्गम् । बाह्वन्तरे मारुतिमाजघान गुहोऽचलं क्रौञ्चमिवोग्र शक्त्या ॥ १९॥ स शूलनिर्भिन्नमहाभुजान्तरः प्रविह्वलः शोणितमुद्रमन् मुखात् । ननाद भीमं हनुमान महाहवे
युगान्तमेघस्तनितस्वनोपमम् ॥२०॥ तच्छलशृङ्गाभिहतम् अनन्तरप्रयुक्तशैलशृङ्गाभिहतसैन्यम् । आयोधनं युद्धम् ॥ १२ ॥ कालान्तकः प्रलयकालरुद्रः ॥ १३ ॥ अभ्यसूदयन् ॥२०॥ अनन् ॥ १४-१६॥ दुद्राव द्रावयामास ॥ १७॥मेदाईत्यत्र सन्धिरापः॥१८॥ आविध्य भ्रामयित्वा। गुड़ः स्कन्दः॥ १९॥ प्रविह्वलः प्रमुह्यन् । विलम्बः विशेषेण लम्बत इति विलम्बः । पचाद्यन् ॥९॥ १० ॥ तानि प्रसिद्धानि । अन्यगिरेः शिरः । अनापि चिक्षेपेति योजनीयम् ॥ ११-३३॥
For Private And Personal Use Only