________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
ऋषभशरभेति । त्वरिततराभिमुखं त्वरिततरम् अभिमुखं चेति कियाविशेषणम् । अत्र वायुपुत्रस्तु न पलाय्य निवृत्तः । किंतु ऋषभादिभिर्मिलित्वा कुम्भकर्णेन सह युद्धार्थे निवृत्त इति ज्ञेयम् ॥ ३४ ॥ इति श्रीगोविन्द ० श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षट्षष्टितमः सर्गः ॥ ६६ ॥ ऋषभशरभ मैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः । द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः ॥ ३४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥ ते निवृत्ता महाकायाः श्रुत्वाऽङ्गवचस्तदा । नैष्ठिकीं बुद्धिमासाद्य सर्वे सङ्ग्रामकाङ्क्षिणः ॥ १ ॥ समुदीरितवीर्याश्च समारोपितविक्रमाः । पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः ॥ २ ॥ प्रयाताश्च गता हर्ष मरणे कृतनिश्चयाः । चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ॥ ३ ॥ अथ वृक्षान् महाकायाः सानूनि सुमहान्ति च । वानरास्तूर्ण मुद्यम्य कुम्भकर्णमभिद्रुताः ॥ ४ ॥ स कुम्भकर्णः संक्रुद्धो गदामुद्यम्य वीर्यवान् । अर्दयन् सुमहाकायः समन्ता व्याक्षिपद्रिपून् ॥ ५ ॥ शतानि सप्त चाष्टौ च सहस्राणि च वानराः । प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः ॥ ६ ॥ षोडशाष्टौ च दश च विंशत्रिशत्तथैव च । परिक्षिप्य च बाहुभ्यां खादन विपरिधावति । भक्षयन् भृशसंक्रुद्धो गरुडः पन्नगानिव ॥७॥ कृच्छ्रेण च समाश्वस्ताः सङ्गम्य च ततस्ततः । वृक्षाद्रिहस्ता हरयस्तस्थुः सङ्ग्राममूर्धनि ॥ ८ ॥ ते निवृत्ता इत्यादि चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविता इत्यन्तमेकं वाक्यम् । नैष्ठिकीं निष्ठा नाशः तत्संबन्धिनीम्, मरणव्यवसायिनीमित्यर्थः । समुदीरितवीर्याः कथितात्मपराक्रमाः । समारोपितविक्रमाः समवलम्बित पराक्रमाः । मरणनिश्चयहेतुमाह-त्यक्तजीविता इति । जीवनाशारहिता इत्यर्थः ।। १-४ ॥ व्याक्षिपत् अपातयत् ॥ ५ ॥ प्रकीर्णाः शिथिलावयवाः। पोथिताः हिंसिताः । कुम्भकर्णस्यैकेन व्यापारेण शतादिसङ्गरूपेण पतिता इत्यर्थः॥६॥ परिक्षिप्य परिगृह्यं । खादन् भक्षयन् । पन्नगान् भक्षयन्निवेति गरुडविशेषणम् ॥ ७ ॥ हरयः, बलवन्तः इति शेषः । सङ्गम्य सम्भूय ॥ ८ ॥ ऋषभशरभेति । वायुपुत्रस्तु न पलाय्य निवृत्तः, किन्तु ऋषभशूर भादिभिर्मिलित्वा कुम्भकर्णेन सह युद्धार्थ निवृत्त इति ज्ञेयम् ॥ ३४ ॥ इति श्रीमहेश्वरतीर्थ● | श्रीरामायण तत्वदीपिका० युद्धकाण्डव्याख्यायां षट्षष्टितमः सर्गः ॥६६॥ ( अत्र सर्गविच्छेदोऽसाम्प्रदायिकः । एकमकरणत्वाद् वृत्तभेदाभावाच इति कतकः ॥ त इति लोकत्रयम् । नैष्ठिकी निष्ठा नाशः तत्सम्बन्धिनीम्, मरणपर्यवसायिनीमिति यावत् ॥ १ ॥ समुदीरितवीर्याः कथितात्मीयमाक्पराक्रमा इत्यर्थः ॥ २८ ॥
११३
For Private And Personal Use Only