________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
INT बा.रा.भ.
इत्यपेक्षायामाह-शयामह इत्यादि । युद्धमरणं हि सत्पुरुषजुष्टो मार्ग इत्यर्थः । समरानिवृत्य पलायितानामपि मरणस्यावश्यंभावित्वप्रदर्शनार्थमल्पीटी.यु.का. १२०६ जीविता इत्युक्तम् । समरानिवर्तिनां वीराणां तु मरणजीवनयोरुभयोरपि श्रेयस्करत्वं प्रतिपादयति दुष्पापमिति । निहत्वा निहत्य । जीवितमिति । स.१
वीरलोकस्य वीराणां लोको ब्रह्मलोकः तस्य वसु मूल्यभूतं जीवितं मोक्ष्यामः॥ २५॥ २६॥ दीप्यमानं ज्वलनमिव राममासाद्य कुम्भकर्णः पतङ्गोH
सम्प्राप्नुयामः कीर्ति वा निहत्वा शत्रुमाहवे । जीवितं वीरलोकस्य मोक्ष्यामो वसु वानराः ॥२६॥ न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन गमिष्यति । दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ॥२७॥ पलायनेन चोद्दिष्टाःप्राणान् रक्षामहे वयम् । एकेन बहवो भना यशो नाशं गमिष्यति ॥२८॥ एवं बुवाणं तं शरमङ्गदं कनकाङ्गदम्। द्रवमाणा स्ततो वाक्यमूचुः शूरविगर्हितम् ॥ २९॥ कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा । न स्थानकालो गच्छामो दयितं जीवितं हि नः ॥३०॥ एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः । भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥३१॥ द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः । सान्त्वैश्चैवानुमानैश्च ततः सर्वे निवर्तिताः ॥३२॥ प्रहर्ष मुपनीताश्च वालिपुत्रेण धीमता। आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ॥३३॥ यथेति यथेवशब्दयोर्निर्वाहः ॥२७॥ उद्दिष्टाः व्यपदिष्टाः । बहवो वयमनेन कुम्भकर्णेन भन्नाः पलायनेन प्राणान् रक्षामहे यदि ततो यझो नाशं गमि । ष्यतीति योजना ॥ २८॥ शूरं पराकमवन्तम् । कनकाङ्गदम् उत्साहातिशयेन प्रकाशितस्वर्णाङ्गदम् ॥२९॥ कदनं मर्दनम् । दापितम् इष्टम् ॥३०॥ ॥३१॥ अनुमानः सालगिरिभेदनादिदृष्टान्तपुरस्कृतैयुक्तिविशेषैः ॥ ३२॥प्रहपमिति । आज्ञाप्रतीक्षाः सुग्रीवाद्याज्ञाप्रतीक्षाः ॥ ३३॥ इत्युक्तम् । समरानिवर्तिना वीराणां मरणजीदितयोरुभयोरपि श्रेयस्करत्वं प्रतिपादयति तुष्पापमिति ॥ २५ ॥ जीवितमिति । वीरलोकस्य वीराणां लोको ब्रह्मलोकः तस्य वसु मुल्यभूतं जीवितं मोक्ष्यामः ॥ २६ ॥ नेति । पता इव कुम्भकर्णः दीप्यमानं पावकमिव काकुत्स्यं दृष्ट्वा जीवन न गमिष्यतीति सम्बन्धः ॥ २७ ॥ बहवो षयमेकेन कुम्भकर्णेन भग्नाः, पलायनेन अनेन भनेनोदिष्टाः पते पलायिता इति जनेनिर्दिष्टाः शापिताश्च प्राणान रक्ष्यामहे यदि तदा अस्माकं यशः नाशं गमिष्यतीति सम्बन्धः ॥ २८-३१॥ द्रवमाणा इति। अनुमानः सालगिरिभेदनाविष्टान्तः ॥ ३२ ॥३३॥
॥२OR
For Private And Personal Use Only