SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir भूमौ पतिता इव तस्थुः ॥ १८ ॥ अवतिष्ठतेत्यादि । परिगम्य प्रदक्षिणीकृत्येत्यर्थः । स्थानं न पश्यामीत्यन्वयः ॥ १९ ॥ असङ्गगतिपौरुषाः | अप्रतिबद्धपराकमा इति वानरसंबोधनम्। निरायुधानां द्रवतां निरायुधेषु द्रवत्सु । यद्वा निरायुधानां द्रवतां दारास्तान् अपहसिष्यन्तीति । सः अवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः । भग्नानां वो न पश्यामि परिगम्य महीमिमाम् । स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ ॥ १९ ॥ निरायुधानां द्रवतामसङ्गगतिपौरुषाः । दारा ह्यपहसिष्यन्ति स वै घातस्तु जीविनाम ॥ २० ॥ कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च । क्व गच्छथ भयत्रस्ता हरयः प्राकृता यथा ॥ २१ ॥ अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ॥ २२ ॥ विकत्थनानि वो यानि तदा वै जनसंसदि । तानि वः क्व नु यातानि सोदग्राणि महान्ति च ॥२३॥ भीरुप्रवादाः श्रूयन्ते यस्तु जीवति विकृतः । मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ॥ २४ ॥ शयामहेऽथ निहताः पृथिव्यामल्पजीविताः । दुष्प्रापं ब्रह्मलोकं वा प्राप्तुमो युधि सूदिताः ॥ २५ ॥ अपहासः । घातः मृतिः ॥ २० ॥ सर्वे, वयमिति शेषः । विस्तीर्णेषु ज्ञातिपरम्परया विततेषु । महत्सु प्रशस्तेषु ॥ २१ ॥ अनार्या इत्यर्धम् । यद्यस्मात् भीताः प्रधावत पायथ । तस्मादनार्याः खलु ॥ २२ ॥ सोद्माणि उद्मतायुक्तानि । महान्ति भूयांसीत्यर्थः ॥ २३ ॥ भीरु प्रवादा इति । यस्तु धिकृतो जीवति तद्विषये भीरूप्रवादाः भीरुत्वापवादाः श्रूयन्ते । सत्पुरुषैः शूरैः । जुष्टः सेवितः ॥२४॥ सत्पुरुषजुष्टो मार्गः कः १ निरायुधानामिति । स वै घातस्तु जीविनां सः दारकृतापहासः घातः मरणम् । जीविनां जीवताम् ॥ २० ॥ २१ ॥ यद्यस्माद्भीताः पलायत तस्मादनार्याः खल ॥ २२ ॥ सोदप्राणि औद्धत्यप्रयुक्तानि । महान्ति भूर्यासि ॥ २३ ॥ यस्तु धितो जीवति तद्विषयभीरुमवादाः श्रूयन्ते, तं सर्वे भीरुरिति वदन्तीत्यर्थः सत्पुरुषैः शूरैः ॥२४॥ कस्तर्हि सत्पुरुषजुष्टो मार्ग इत्यपेक्षायामाह-शयामह इति । युद्धमरणं सत्पुरुषजुष्टो मार्गः, मरणस्यावश्यम्भावित्व प्रदर्शनार्थमत्नजीविताः। ० मां महीं परिक्रम्यापि स्थितानां स्थान निर्मयस्थलं न पश्यामि । राइ भाडा तादृशीत्यत्रावस्थाने झम्मकर्णतो मरणम् । गतस्तां सुप्रीत इति नान्विर्तने निर्वृतिर्ममतामिति मावः ॥ १९ ॥ निरायुधानां रिपुमुक्तायुधानङ्कितानाम् । क्रमतां गृहं प्रति द्रवताम् । सुजीवतां सज्जीवनवताम् ॥ २० ॥ ब्रह्मलोकं वीरस्वर्गसंज्ञम् । एतेन "हतो वा प्राप्स्यसि स्वर्गं जित्वा वा मोक्ष्यसे महीम्” इति गीता चैतदुक्तमेवार्थ वदतीति सूचितम् । शत्रुमिति ं जातायेकवचनम् । मुख्यदशसुतविवक्षयैकवचनं वा । बाहर हत्सुमयत्रान्वयि । तैर्निहताः बीरलोकस्य वीरप्राप्यस्वर्गस्य । वनु तत्र भोग्यं धनादि तेनाधिकमानहं । मोक्ष्यामः । पूर्वमव्यवहितकपिवरान् प्रति वचनम् । इदं तदपेक्षया दूरवर्तिन उपागतान् प्रति वचनमित्यधिकारिमेदान पुनर्वचन्ददोषः । यत्परिहारार्थ दाढर्षार्थमित्युक्तिरप्यपेचिता स्यादिति मन्तव्यम् ॥ ११ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy