________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू.
टी.यु.का.
दीप्तभोगैः शिरोरत्नकान्त्या प्रकाशितफणैरिव स्थितैः । महासत्त्वैः जलगजशिंशुमारादिभिः । सुदुर्ग यादोभिः । दुर्गमार्ग दुर्गमम्, नौपथसञ्चारायोग्य मित्यर्थः । योगरूढिभ्यां वरुणावासवरुणालयपदद्वयनिर्वाहः ॥११६॥ रामानु०-अगाधमसुरालयमित्येतदन्तं पश्यन्त इत्यस्य कर्म ॥११६॥ तदानीं सागरमुत्प्रेक्षतेमकरोरिति । नागभोगैः सर्पकायैः । विगाढाः प्रविष्टाः। वातलोलिताः वायुचलिताः । अत एव प्रवृद्धाः जलराशयः तरङ्गाः । उत्पेतुश्च निपेतुश्च, उत्पत्य
दीप्तभोगैरिवाकीर्ण भुजङ्गैर्वरुणालयम् । अवगाढं महासत्त्वै नाशैलसमाकुलम् । सुदुर्ग दुर्गमार्ग तमगाधमसुरा लयम् ॥ १६॥ मकरैनांगभोगैश्च विगाढा वातलोलिताः। उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः ॥ ११७॥ अग्निचूर्णमिवाविद्धं भास्वराम्बु महोरगम् । सुरारिविषयं घोरं पातालविषमं सदा ॥ १८॥ सागरं चाम्बरप्रख्य
मम्बरं सागरोपमम् । सागरं चाम्बरं चेति निर्विशेषमदृश्यत ॥ ११९॥ निपेतुरिति भावः॥११७॥ अथ सागराम्बरयोः सर्वथा साम्यं वर्णयति-अग्निचूर्णमित्यादिना । रात्री सागरस्य सलिलशीकराः अग्निचूर्णा इव दृश्यन्त इति । प्रसिद्धिः, अतो भास्वराण्यम्बूनि शीकररूपाणि यस्य तथोक्तम् । अत एवाविद्धम् आकीर्णम् अग्निचूर्णमिव सागरे दृश्यते । अम्बरं च कीर्णैनक्षत्रैस्तथा दश्यते।भास्वराम्बु विमलतुहिन च । महान्त उरगा यस्मिन् तन्महारगम् । इदमप्युभयत्रापि समानम् । आकाशे गन्धर्वादीनामिव नागानामपि सञ्चार सम्भवात्, राह्वादिरूपोरगसम्भवादा । सुरारयः असुरा राक्षसाश्च तेषां विषयम् आवासभूतम् । इदमप्युभयत्र तुल्यम् । पातालविषमं पातालवत् गम्भीर रम् । इदमप्युभयत्र तुल्यम् । घोरं भयङ्करम् । इदमप्युभयत्र तुल्यम् । एवमुक्तविशेषणविशिष्टं सागरं सागरः अभ्वरप्रख्यम् अम्बराभम्, उक्तविशेषण विशिष्टमम्बरं च सागरोपममदृश्यतेत्याकृष्य योजना ॥ ११८॥ न केवलं साम्यम्, सर्वथा साम्यं चेत्याह-सागरमिति । क्लीबत्वमार्षम् ॥ ११९॥ 19 दीप्तभोगेरिव तेजोतिशयेनोज्वलदेहेरिव स्थितैः भुजङ्गैराकीर्ण वरुणालयमित्यस्य रूढत्वादरुणावासमित्यनेन न पुनरुक्तिः ॥ ११६ ॥ जलराशयः ऊर्मयः ॥ ११७ ॥ अग्निचूर्णमित्यादिना द्वयेन सागराम्बरयोस्साम्यं प्रतिपाद्यने । भास्वराम्बु चन्द्रकिरणसम्पर्कात् भास्वराणि शीकररूपाम्बृनि यस्य तत् । अतः आविद्धम् आकीर्णम् अनिचूर्णमिव अग्निकणसमूह इव स्थितम् । अम्बरं तु नक्षत्रगणेस्तथा । महोरगं महान्तः उरगा यस्मिन तत् इत्येतदुभयत्र समानम् । सुरारिविषयम, मुरारयोऽसुरा TRAINME
T सुमारावषयम, मुरारयाऽसुरा राक्षसाचलेषां विषयमावासभूतम् इदमप्युभयत्र समानम । पातालविषयमिति पाठः । पातालम्प विषय व विषयो यस्य नन । पातालवदतिगम्भीरमित्यर्थः । इदमप्युभयत्रापि समानम् । एवमुक्तविशेषणविशिष्टं सागरमम्बरप्रख्यम् उक्तविशेषणविशिष्टमम्बरं च सागरोपमम् अतः सागर
॥१७॥
For Private And Personal Use Only