________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सेति । त्रेधा त्रिप्रकारैः । वलयत्रयाकारणति यावत् । वानरगोपुच्छभल्लूकभेदेन पेति वा ॥११०॥ पश्यमाना पश्यन्ती सती । दृष्टा, अभूदिति शेषः ॥ १११॥ दूरं पारं यस्य दूरपारम्, विशालमित्यर्थः । असंबाधं संबाधरहितम्, अक्षोभ्यमित्यर्थः । रक्षोगणनिषेवितं समुद्रे रक्षासि वसन्तीति प्रसिद्धिः ॥ ११२ ॥ चण्डनकैः करणैः ग्रहः ग्रहणं यस्य स तथोक्तः तम् । “सूर्यादौ ग्रहणे युद्धे पूतनादावनुग्रहे । उपरागे च निर्बन्धे स्वर्भानो च
सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता। त्रिधा निविष्टा महती रामस्यार्थपराऽभवत् ॥ ११०॥ सा महार्णव मासाद्य हृष्टा वानरवाहिनी। वायुवेगसमाधूतं पश्यमाना महार्णवम् ॥११३॥ दूरपारमसम्बाधंरक्षोगणनिषेवितम् । पश्यन्तो वरुणावासं निषेदुहरियूथपाः ॥ ११२ ॥ चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये । हसन्तमिव फेनौधैर्नृत्यन्त मिव चोर्मिभिः ॥ ११३॥ चन्द्रोदयसमुद्भूतं प्रतिचन्द्रसमाकुलम् ॥ ११४॥ [ पिनष्टीव तरङ्गाग्रेरणवः फेन
चन्दनम् । तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः॥] चण्डानिलमहाग्राहैः कीर्ण तिमितिमिङ्गिलैः ॥१५॥ ग्रहः स्मृतः ॥” इति निघण्टुः । दिवसक्षये क्षपादो, सन्ध्यायामित्यर्थः। घोरं वर्धमानत्वाद्भयङ्करम् ॥ ११३॥ समुद्भूतम् उल्ललितम् । प्रतिवीचि लप्रतिबिम्बितचन्द्रत्वात् प्रतिचन्द्रः समाकुलम् । चण्डानिलमहाग्राहैः चण्डानिलसदृशवेगमहाग्राहेरित्यर्थः । तिमयः शतयोजनायता महामत्स्याः । तानपि भक्षयितुं क्षमास्तिमिङ्गिलाः। तिमीनिगिरन्तीति व्युत्पत्तेः । “गृ निगरणे" इति धातुः। “योऽचि" इति लत्वम् । तदुक्तं पुराणे-" अस्ति मत्स्यस्तिमि म शतयोजनमायतः। तिमिनिलगिलोऽप्यस्ति तद्रिलोऽप्यस्ति सागरे॥” इति ॥ ११ ॥ ११५॥ वानराणां ध्वजिनी, कक्षगोलागृलानामपि वानरावान्तरजातीयत्वात्सर्वेषामपि वानरत्वोक्तिः। विधा निविष्टा ऋक्षवानरगोलागूलभेदेन त्रिधा निविष्टेत्यर्थः ॥ ११०॥ पश्यमाना पश्यन्ती । हृष्टा, अभूदिति शेषः । दूरपारमित्यादि सार्धचतुष्टयमेकं वाक्यम् । अगाधमसुरालयमित्यन्तस्य पश्यन्तो निषेदुरित्यनेनान्वयः ।। असम्बाध सम्बाधरहितम, अक्षोभ्यमित्यर्थः । चण्डनक्रग्रहं चण्डनकः करणैः ग्रहः ग्रहणं यस्य स तथोक्तम् । दिवसक्षये सति क्षपादो निशामुखे घोरं वर्धमान वायमित्यर्थः । प्रतिचन्द्रसमाकुलं प्रतिबिम्बितचन्द्रत्वात् प्रतिबिम्बसमाकुलत्वम् । चण्डानिलमहामाहेः चण्डानिलसदृशमहामाहेरित्यर्थः । तिमितिमिलिः तिमयः शतयोजनायामा महामत्स्याः । “अस्ति मत्स्यस्तिमि म शतयोजनमायतः" इति वचनाद । तिमिनिलाः तन्निगरणशीला: मत्स्यधिशेषाः ॥११-१५॥tal
For Private And Personal Use Only