SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyanmandir सामन्त्रः कार्यविचारः। प्रस्तूयताम् आरभ्यताम् । इति वक्ष्यमाणप्रकारेण ॥१०२ ॥ इतीति । इतीवेत्यनेन सेनानिवेशनियोगे सागरतरणोपायविचारः। चारा.. टी.यु.का अहृदयो हेतुः। वस्तुतस्तु सीताहरणक्लेश एव हेतुरिति व्यज्यते ॥ १०३ ॥ सर्वा इति । स्पष्टम् ।। १० ।। कुतः कुतश्चिदेतोः । शूराः वानराः। तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिति । यथेदं वानरवलं परं पारमवाप्नुयात्॥१०२॥ इतीव स महाबाहुः सीता हरणकर्शितः रामः सागरमासाद्य वासमाज्ञापयत्तदा ॥१०३॥ सर्वाः सेना निवेश्यन्तां वेलायां हरिपुङ्गवा सम्प्राप्तो मन्त्रकालो नः सागरस्यास्य लङ्घने ॥ १०४॥ स्वां स्वां सेनां समुत्सृज्य मा च कश्चित् कुतो व्रजेत् । गच्छन्तु वानराः शूरा ज्ञेयं छन्नं बलं च नः॥ १०५॥रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः । सेना न्यवेशयत्तीरे साग रस्य द्रुमायुते ॥ १०६॥ विरराज समीपस्थं सागरस्य च तद्बलम् । मधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः ॥ १०७॥ वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः । विनिविष्टाः परं पारं कक्षिमाणा महोदधेः ॥१०८॥ तेषां निविश मानानां सैन्यसन्नाहनिःस्वनः। अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥ १०९॥ गच्छन्तु सर्वतः सञ्चरन्तु । किमर्थमित्यत्राह-ज्ञेयमिति । नः अस्माकम् भयं भयनिमित्तम् छत्रं ज्ञेयम्, तत्र तत्र निलीनेः शत्रुभिः प्रायशः प्रहार सम्भवादिति भावः ॥१०५॥ रामस्येति । द्रुमायुते द्रुमैर्युक्ते । मिश्रणार्थीद्यौतेनिष्ठा ॥ १०६॥ सागरस्य समीपस्थं तद्वलम् मधुपाण्डुजलः मधुर रावित्पिङ्गलजलः द्वितीयः सागर इस विरराजेत्युत्प्रेक्षा ॥ १०७॥ वेलेति । स्पष्टम् ॥१०८॥ तेषामिति । अन्तर्घाय, स्थित इति शेषः॥ १०९॥ वासमाज्ञापयदित्यस्य इहैव निवेशोऽस्त्वित्युक्तनिवेशनप्रकारविशेषविधानार्थत्वान्न पुनरुक्तिः॥ १.३ ॥ १०४॥ स्वो स्वामिति । शूराः वानराः गच्छन्तु, बल शनिवेशनार्थ गच्छन्त्वित्यर्थः । स्वा स्वा सेना वानरो वानरसेनाम् ऋक्षः ऋक्षसेना समुत्सृज्य कश्चिदपि कुनोपि मा व्रजेत् । कुतः १ अस्माकं भयनिमित्तं छन्नं ज्ञेयं शहनीयम् । तत्रतत्र लीनः शत्रुमिः प्रायशः प्रहरणसम्भवादिति भावः ॥ १०५ ॥ १०६ ॥ विरराजेति । सागरस्य समीपस्थं तद्बलम् । मधुपाण्डुजल: मधु वत्पिङ्गलवर्णजला द्वितीयः सागर इवेत्युत्प्रेक्षा । "हरिणः पाण्डुर पाण्डः" इत्यमरः । मधुपानोत्कटं श्रीमद्वितीय व सागरः । इति वा पाठः ॥ १०७॥ १०८॥ सैन्यसबाहनिस्वना सैन्यसबारध्वनिः ॥१.९॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy