________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
परित्यनुपज्यते ॥ ९३ ॥ बभूवति । इवशब्दो वाक्यालङ्कारे । अन्ये तु-तत्र तदानीम् पक्कैः कलमकेदारैः पक्वशालिक्षेत्रैः सम्पूर्णा वसुन्धरेव यथा
भवेत् तथा तेर्हरिपुङ्गवैः संपूर्णा वसुधा बभूवेति योजयन्ति । अपरे तु-कलमकेदारैर्यथा कलमकेदारसदृशैः हरिपुङ्गवैः संपूर्णा वसुधा वसुन्धरेव कलमकेदारभूरिख बभूवेत्याहुः । उपमानद्वित्वं व्यञ्जयितुमुपमावाचकद्वयं प्रयुञ्जते कवयः । यथा-"उद्धृत्य मेघैस्तत एव तोयमर्थ मुनीन्द्ररिख बभूव वसुधा तेस्तु सम्पूर्णा हरियूथपैः। यथा कलमकेदारैः पक्कैरिव वसुन्धरा ॥९४॥ महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः। अध्यारोहन्महाबाहुः शिखरं द्रमभूषितम् ॥९५॥ ततः शिखरमारुह्य रामो दशरथात्मजः। कूर्ममीनसमाकीर्णमपश्यत् सलिलाकरम् ॥ ९६॥ ते सह्यं समतिक्रम्य मलयञ्च महागिरिम् । आसेदुरानुपूर्येण समुद्रं भीमनिस्वनम् ॥ ९७॥ अवरुह्य जगामाशु वेलावनमनुत्तमम् । रामो रमयता श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥९८॥ अथ धौतोपलतला तोयौकैः सहसोत्थितः । वेलामासाद्य विपुलां रामो वचनमब्रवीत् ॥९९ ॥ एते वयमनुप्राप्ताः सुग्रीव वरुणालयम् । इहेदानी विचिन्ता सा या नः पूर्वं समुत्थिता ॥ १०॥ अतः परमतीरोऽयं
सागरः सरितां पतिः। न चायमनुपायेन शक्यस्तरितुमर्णवः ॥ १०१ ॥ संप्रणीताः । आलोकयामास हरिः पतन्तीनदीः स्मृतीवेदमिवाम्बुराशिम् ॥” इति ॥ ९४ ॥ महेन्द्रमिति । अथ सह्यमलयातिकमणानन्तरम् । राजीव लोचन इति समुद्रदर्शनाय महेन्द्रशिखरारोहणकुतूहलित्वमुम् ॥ ९॥ तत इति । स्पष्टम् ॥९६॥९७॥ वेलावनस्योन्नतत्वावरुह्येत्युक्तम् । रमयतां श्रेष्ठ इत्यनेन समुद्रसम्भ्रमप्रदर्शनेन लक्ष्मणादिरञ्जकत्वं व्यनितम् ॥ ९८॥ अथेति । स्पष्टम् ॥ ९९॥ एत इति । विचिन्ता समुद्रतरणोपाय चिन्ता ।। १००॥ अत इति । अतीरः अविद्यमानतीरः । जलपाय इति यावत् । अनुपायेन उपायं विनेत्यर्थः । प्रसज्यप्रतिषेधे नसमासः ॥१०॥ कलमकेदारैः पक्वशालिक्षेत्र सम्पूर्णा वसुन्धरेष यथा भवेत तथा तेहरिपुङ्गवः सम्पूर्णा वसुधा बभूवेत्यन्वयः । यद्वा पकैः कलमकेदारैर्यथा पाककलमकेदार सदृशैः हरिपुङ्गवैः संपूर्ण वभुण वसुन्धरेव कलमकेदारभूमिरित्र बभूवेत्यन्वयः । यद्वा इवशन्दम्तथार्थे । पकै कलमकेदारैः वसुन्धरा यथा पूर्णा तथा हरिपुङ्गवः वसुधा पूर्णा बभूवेति योजना ॥ ९४-१६ ॥ अत्रातुक्तमपि वासत्रयमन्यद्बोध्यम्, अग्निवेश्योक्तेः। ते सर्वे वानराः आनुपूर्पण सेनासन्निवेशक्रमेण ॥९॥ अवरुझ, महेन्द्रादित्यर्थः ॥ २८॥ तोयोधैः तरङ्गः॥ ९९ ॥ विचिन्ता समुद्रतरणोपायचिन्ता ॥ १०॥ अतीरः अविद्यमानप्रत्यासन्नतीरः । अनुपायेन उपाया भावेन, उपायं विनेत्यर्थः ॥ १०१।। १०२॥
For Private And Personal Use Only