________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू. .१५॥
स.४
कृता इत्यन्वयः ॥ ८०-८४ ॥ वाप्य इत्यादि जलाशया इत्यन्तमेकं वाक्यम् । जलाशयाः जलपूर्णा इति वापी विशेषणम् । अत्रापि पर्याकुलीकृता टी-यु,का इत्यनुषज्यते । कारण्डवाः जलकुक्कुटाः । प्लवैःजलकाकैः। कोचैः प्रसिद्धैः। तीरवनमृगानाह-वराहेत्यादिना । तरक्षुभिः मृगादनः । व्यालेः दुष्टगजैः । वाप्यस्तस्मिन् गिरौ शीताः पल्वलानि तथैव च । चक्रवाकानुचरिताः कारण्डवनिषेविताः। प्लवैः क्रौञ्चैश्च सङ्कीर्णा वराहमृगसेविताः ॥ ८५॥ ऋक्षैस्तरक्षुभिः सिंहैः शार्दूलैश्च भयावहैः। व्यालैश्च बहुभिर्भीमैः सेव्यमानाः सम न्ततः॥८६॥ पञः सौगन्धिकैः फुल्ः कुमुदैश्चोत्पलैस्तथा। वारिजैविविधैः पुष्पै रम्यास्तत्र जलाशयाः॥८७॥ तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ॥ ८८ ॥ स्नात्वा पीत्वोदकान्यत्र जले कीडन्ति वानराः । अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः ॥ ८९ ॥ फलान्यमृतगन्धीनि मूलानि कुसुमानि च । बुभुजुर्वानरास्तत्र पाद पानां मदोत्कटाः॥९॥ द्रोणमात्रप्रमाणानि लम्बमानानि वानराः। ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः ॥९॥ पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः। विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः ॥९२॥ वृक्षेभ्योऽन्ये
तु कपयो नर्दन्तो मधुदर्पिताः । अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्त्यपि चापरे ॥ ९३ ॥ सौगन्धिकै कारैः । वारिजेरिति । एवमिति शेषः ॥८५-८७ ।। तस्य सानुष्वित्यर्धमेकं वाक्यम् । कूजन्ति चुकूजुः । तत्सैन्यदर्शनादिति भावः ॥ ८८॥ स्नात्वेति । अत्र जले वापीजले । प्लावयन्ति सिञ्चन्ति ।। ८९ ॥ शैलमारुह्येत्युत्तरशेषः । अमृतगन्धीनि अमृतस्वादूनि । मदोत्कटाः मदमत्ताः ॥ ९ ॥ द्रोणमात्रेति । द्रोणमात्रप्रमाणानि द्रोणं शिवद्वयम्, तत्प्रमाणभधुपूर्णानि । मधूनि मधुपटलानि । मधुपिङ्गलाः मधुवत्पिङ्गलवर्णाः ॥ ९॥ पादपानिति । विधमन्तः दहन्तः। "ध्मा शब्दानिसंयोगयोः" इति धातुः ॥ ९२ ॥ वृक्षेभ्य इति । अन्ये वृक्षेभ्यः वृक्षेभ्योऽन्यत्र । अत्रापि ययुग वाप्य इत्यादि सार्धमेकं वाक्यम् । तस्मिन् गिरी सह्यपर्वते वाप्प चक्रवाकानुचरितत्वविशिष्टा इत्यर्थः । कारण्दवः जलकक्कुटः । तवः बकविशेषः ॥ ८॥13॥१५॥ तरक्षुः मृगादनः । मक्षादिभिस्सेव्यमानं तदीयं वनं सह्यगिरावासीदिति शेषः ॥ ८ ॥८॥ तस्येति । तस्य सानुषु सह्मगिरिसानुषु ॥८८-९० ॥ मधूनि मधुर पटलानि ॥ ११ ॥ ९२ ॥ अन्ये वृक्षेभ्यः, अन्यत्र ययुरिति शेषः ॥ १३ ॥
For Private And Personal Use Only