SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir प्रस्तरेषु शिलासु, स्थिताः इति शेषः । वायुवेगः वानरसेनावेगजवायुवेगः ॥ ७६ ॥७७॥वानराणां धातुरेणुरूपितत्वं वक्तुं पर्वतस्य धातुमत्तामाह-1 अधिकमिति । अर्धमेकं वाक्यम् । शैलराजः समः ॥ ७८॥ विघट्टितः उत्थापितः ॥ ७९ ॥ गिरिप्रस्थेत्यादिसाईपञ्चश्लोक्येकान्वया । पुष्पिताः प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः।वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान् ॥ ७६ ॥ मारुतः सुखसंस्पर्शी वाति चन्दनशीतलः । षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥ ७७ ॥ अधिक शैलराजस्तु धातुभिः सुविभूषितः ॥७८॥ धातुभ्यः प्रसृतो रेणुर्वायुवेगविघट्टितः। सुमहद्वानरानीकं छादयामास सर्वतः॥७९॥ गिरिप्रस्थेषु रम्येषु सर्वतः संप्रपुष्पिताः । केतक्यः सिन्धुवाराश्च वासन्त्यश्च मनोरमाः॥८॥ माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः। चिरिबिल्वा मधूकाश्च वकुलाः प्रियकास्तथा ॥८१॥ स्फूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः। चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः॥८२॥ मुचुलिन्दार्जुनाश्चैव शिशुपाः कुटजास्तथा ।धवाः शाल्मलयश्चैव रक्ताः कुरबकास्तथा ॥८३॥ हिन्तालास्तिमिशाश्चैव चूर्णका नीपकास्तथा। नीलाशोकाश्च वरणा अङ्कोलाः पद्मका स्तथा । प्लवमानैः प्लवङ्गैस्तु सर्वे पर्याकुलीकृताः ॥ ८४ ॥ इत्येतत्सर्वविशेषणम् । अतस्तस्य बहुशः प्रयोगः । वसन्ते पुष्प्यन्तीति वासन्त्यः । इदं माधवीविशेषणम् । “कालात्साधुपुष्प्यत्पच्यमानेषु" इत्यण । गन्धेः पूर्णाः गन्धपूर्णा, कुन्दाः। चिरिबिल्वाः नक्तमालाः। मधूकाःगुडपुष्पाः। वञ्जुलाः वानीराः । प्रियकाः बन्धूकाः । स्फूर्जकाः तिन्दुकवृक्षाः । नागवृक्षाः नागकेसराः । पाटलयः पाटलाः। कोविदाराः चमरिकाः। मुचुलिन्दाः खजूरविशेषाः । अर्जुनाः ककुभाः। शिशुपाः पिच्छिलाः। कुटजाः। जयवृक्षाः।धवाःधुन्धुरवृक्षाः। शाल्मलयः मोचा।"पिच्छिला पूरणी मोचा चिरायुः शाल्मलिर्द्धयोः" इत्यमरः । हिन्तालाः तालविशेषाः । चूर्णकाः आमलकविशेषाः । नीपकाः कदम्बाः । वरणाः वारुणाः। पद्मकाः सुगन्धिपुष्पा वृक्षविशेषाः । एवम्भूता वृक्षाःप्लवमानःपूवङ्गे पर्याकुली| तवमा रित्यर्ध मिन्नं वाक्यम् ॥ ८४ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy