________________
Sh Maha
Jain Aradhana Kendra
www.kabatm.org
Acharya Shri Kalassagarsun Gyanmandir
कालः, युद्धायेति शेषः ॥ १२-१४॥ एवमिति । पुनर्जातमिव मेने । जेष्यत्ययमिति विश्वासादिति भावः ॥ १५॥ १६ ॥ इत्येवमित्यर्घम् । निर्जगाम निर्गन्तुमुयुक्तः ॥ १७ ॥ राज्ञस्वित्यादि । सर्वकालायसम् बहुकार्णायसमयमित्यर्थः । महाधाम महातेजः । खतश्वोद्गतपावकं कोर्यात् स्वत
तद्गच्छ शूलमादाय पाशहस्त इवान्तकः। वानरान् राजपुत्रौ च भक्षयादित्यतेजसौ ॥ १३॥ समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः। रामलक्ष्मणयोश्चापि हृदये प्रस्फुटिष्यतः ॥ १४॥ एवमुक्त्वा महाराजः कुम्भकर्ण महाबलम् । पुनर्जातमिवात्मानं मेने राक्षसपुङ्गवः ॥ १५॥ कुम्भकर्णबलाभिज्ञो जानस्तस्य पराक्रमम् । बभूव मुदितो राजा शशाङ्क इव निर्मलः ॥ १६ ॥ इत्येवमुक्तः संहृष्टो निर्जगाम महाबलः ॥ १७ ॥ राज्ञस्तु वचनं श्रुत्वा कुम्भकर्णः समुद्यतः। आददे निशितं शूलं वेगाच्छत्रुनिबर्हणम् ॥ १८॥ सर्वकालायसं दीप्तं तप्तकाञ्चन भूषणम् । इन्द्राशनिसमं भीमं वजप्रतिमगौरवम् ॥ १९॥ देवदानवगन्धर्वयक्षकिन्नरमूदनम् । रक्तमाल्यं महाधाम स्वतश्चोद्गतपावकम् ॥ २०॥ आदाय निशितं शूलं शत्रुशोणितरञ्जितम् । कुम्भकर्णो महातेजा रावणं वाक्य मब्रवीत् ॥ २१॥ गमिष्याम्यहमेकाकी तिष्ठत्विह बलं मम । अद्य तान क्षुभितान क्रुद्धो भक्षयिष्यामि वानरान् । कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् ॥ २२॥ सैन्यैः परिवृतो गच्छ शुलमुद्रपाणिभिः । वानरा हि महात्मानः शीघ्राः सुव्यवसायिनः ॥ २३॥ एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम् । तस्मात् परमदुर्धर्षेः सैन्यैः
परिवृतो ब्रज । रक्षसामहितं सर्व शत्रुपक्षं निषूदय ॥ २४ ॥ एवोत्पन्नामिकणम् ॥ १८-२२ ॥ सैन्यरित्यादि । महात्मानः महाबुद्धयः । शीघ्राः वेगवन्तः। सुव्यवसायिनः दृढनिश्चयाः ॥ २३ ॥२४॥ शेषः ॥ १२ ॥ वानरान राजपुत्रौ च मक्षय । वस्तुतस्तु राजपुत्रौ, विनेति शेषः ॥ १३ ॥ समालोक्येत्यस्य वास्तवार्थस्तु-ते रूपं समालोक्य रामलक्ष्मणयो । स्सम्बन्धिनो वानरा विद्रविष्यन्ति । प्रस्फुटिष्यतः, द्यावापृथिवी इति शेषः । अतो हृदये युद्धगमनाय मतिं कुर्वित्यर्थः ॥ १५ ॥ पुनर्जातमिव मेने, जेव्यत्ययमिति विश्वासादिति भावः ॥१५-१८ ॥ सर्वेति । सर्वकालायसं सर्वकालायसनिर्मितस्वरूपम् ॥ १९ ॥ रक्तमाल्पमहाधाम रक्तमाल्पं च तव महा।
For Private And Personal Use Only