________________
Shri Mahavir Jain Aradhana Kendra
खा.रा.भू. ४२०२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टी. यु. कॉ.
कर्म कुर्वन्ति ॥४॥ विकुवानामिति । अत्र पञ्चम्यर्थे षष्ठी । सादितमिति भावे निष्ठा । विकवेभ्यः कातरेभ्यः । अबुद्धिभ्यः पण्डितमानिभ्यः त्वद्विषेभ्यः शृण्वता राज्ञा । इदमीदृशम् । सादितं प्राप्तं भवति ॥ ५ ॥ इदंशब्दनिर्दिष्टं दर्शयति-युद्ध इति । युद्धे कापुरुषैः युद्धभीरुभिरित्यर्थः । राजानमनुगच्छद्भिः स० ६५ राजेच्छानुसारिभिरित्यर्थः । एतत् प्रकृतयुद्धपर्यवसायि सीताहरणकृत्यं सादितं संपादितम् ॥ ६ ॥ राजशेषेति । अत्राप्यनुगच्छद्भिः भवद्भिरित्यनु विवानामबुद्धीनां राज्ञा पण्डितमानिनाम् । शृण्वता सादितमिदं त्वद्विधानां महोदर ॥ ५ ॥ युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः । राजानमनुगच्छद्भिः कृत्यमेतद्धि सादितम् ॥ ६ ॥ राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम् । राजानमिममासाद्य सुहृचिह्नममित्रकम् ॥ ७ ॥ एष नियम्यहं युद्धमुद्यतः शत्रुनिर्जये । दुर्नयं भवतामद्य समीकर्तुमिहाहवे ॥ ८ ॥ एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः । प्रत्युवाच ततो वाक्यं प्रहसन राक्षसाधिपः ॥ ९ ॥ महोदरोऽयं रामात्तु परित्रस्तो न संशयः । न हि रोचयते तात युद्धं युद्धविशारद ॥ १० ॥ कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च । गच्छ शत्रुवधाय त्वं कुम्भकर्ण जयाय च ॥ ११ ॥ तस्मात्तु भयनाशार्थं भवान् संबो धितो मया । अयं हि कालः सुहृदां राक्षसानामरिन्दम ॥ १२ ॥
पञ्जनीयम् । सुहृच्चिद्धं सुहृव्यपदेश्यम् । अमित्रकं भवताममित्रभूतम् । इमं राजानमासाद्य अनुगच्छद्भिः भवद्भिः लङ्का राजशेषा कृता । अकार्यप्रवृत्तो राजा यैर्न निवार्यते स तेषाममित्र इत्यभिप्रायेण अमित्रकमित्युक्तम् ॥ ७ ॥ एष इति । दुर्नयं समीकर्तुम् । शत्रुनिर्जये, तद्विनाश इत्यर्थः । उद्यतः उद्युक्तः सन् । युद्धं युद्धभूमिं प्रति । एष निर्यामि अद्यैव निर्यास्यामीत्यर्थः ॥ ८-११ ॥ तस्मात् भवतो निस्समत्वात् । सम्बोधितः प्रबोधितः । भयं हि विवानामिति । अत्र वच इत्यध्याहर्तव्यम् । विषानामबुद्धीनां पण्डितमानिनां च त्वद्विधानां वचः शृण्वता राज्ञा यत्सादितमवसादनमस्ति तदिद मिति योजना ॥ १ ॥ इदंशब्दनिर्दिष्टं किमित्याकाङ्गायामाह-युद्धे कापुरुषैरित्यादि श्लोकद्वयेन । कापुरुषैः युद्धभीरुभिरित्यर्थः । राजानमनुगच्छद्भिः राजे च्छानुसारिभिः । एतत्कृत्यं राजकार्यम् । सादितं विनाशितम् ॥ ६ ॥ तुहाश्चेिद्धं मुहम्यपदेशम् अमित्रकं भवताममित्रभूतम् । इमं राजानमासाद्यानुगच्छद्भि भवद्भिः लङ्का राजशेषा कृता, कोशश्च क्षीणः, बलं च हतमिति सम्बन्धः ॥ ७-११ ॥ अयं हीति । मुददां राक्षसानाम् । अयं हि कालः, युद्धगमनायेति
For Private And Personal Use Only
॥ २०२॥