________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रिक्तोपायेन जयन्नित्यर्थः । महत् पुण्यं पुण्यफलं सुखम् । श्रियं श्रीमत्प्रियालाभेन जनितां सम्पदम् । कीर्ति प्रसादम् विस्तारं वा । " कीर्तिः प्रसादे यशसि कर्दमे विस्तृतावपि " इति रत्नमाला । महीपते इति संबोधनम् । सीतानुरागाभावेन नैराश्याद्रामः स्वयं विनश्यतीति महोदरहृदयम् | ॥ ३६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुष्षष्टितमः सर्गः ॥ ६४ ॥
स तथोक्तस्तु निर्भत्सूर्य कुम्भकर्णो महोदरम् । अब्रवीद्राक्षस श्रेष्ठं भ्रातरं रावणं ततः ॥ १ ॥ सोऽहं तव भयं घोरं वधात्तस्य दुरात्मनः । रामस्याद्य प्रमार्जामि निर्वैरो हि सुखी भव ॥ २ ॥ गर्जन्ति न वृथा शूरा निर्जला इव तोयदाः । पश्य सम्पाद्यमानं तु गर्जितं युधि कर्मणा ॥ ३ ॥ न मर्षयति चात्मानं सम्भावयति नात्मना। अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् ॥ ४ ॥
Acharya Shri Kalassagarsuri Gyanmandir
अथ युद्धाय कुम्भकर्णनिर्याणं पञ्चषष्टितमे-स तथोक्तस्त्वित्यादि । निर्भर्त्स्य, गर्जन्तीत्यादिवक्ष्यमाणप्रकारेणेति शेषः ॥ १ ॥ सोऽहमिति । प्रमार्जामि निवर्तयिष्यामीत्यर्थः । वर्तमानसामीप्ये वर्तमानवत् प्रयोगः ॥ २ ॥ गर्जन्तीति । वृथा कर्मणा विना । मया तु कर्मणा सम्पाद्यमानं गर्जितं पश्य, गर्जितानुसारेण कर्म करोमीत्यर्थः ॥ ३ ॥ न मर्षयतीति । शूराः परकृतामवमानोक्तिं न मर्षयति न मर्षयन्ति, न सहन्ते । आत्मना स्वयम् आत्मानं न सम्भावयति न सम्भावयन्ति, न बहुमन्यन्ते । उभयत्रापि व्यत्ययेनैकवचनम् । किंतु अदर्शयित्वा अप्रकाश्य, आत्मपौरुषमनुक्त्वेत्यर्थः । दुष्करमपि पाशसंशयः अप्राप्तप्राणसन्देहः । अयुद्धेन रिपून् जयन युद्धष्यतिरिक्तोपायेन रिपून जयन्नित्यर्थः ॥ ३६ ॥ इति श्रीमहेश्वरतीर्यविरचितायां श्रीरामायणनवदीपिका ख्यायां युद्धकाण्डव्याख्यायां चतुष्पष्टितमः सर्गः ॥ ६४ ॥ १ ॥ सोऽहमिति । प्रमार्जामि प्रमार्जयामि । सोऽहमित्यस्य वास्तवार्थस्तु दुरात्मनः दुःखेष्वप्यात्मा बुद्धिरमहरूपा यस्य रामस्य अहं रामदासोऽहं यद्यपि तथापि तस्य प्रसिद्धस्य, महस्तमुखराक्षससमूहस्येत्यर्थः । वधात्तव घोरं भयम्, उपस्थितमिति शेषः । तत् प्रमाजमि अपनयामि स त्वं निर्वैरस्सन सुखी भवेति सम्बन्धः ॥ न मर्षयतीति । शूरा आत्मानं न मर्षयति, क्रुद्धमात्मानं पौरुषमकृत्वा न शमयन्तीत्यर्थः । आत्मना आत्मानं न सम्भावयति न श्लाघन्ते । उभयत्रैकवचनमार्षम्। किन्तु अदर्शयित्वा अप्रकाश्य प्रथममात्मपौरुषमनुक्त्वेत्यर्थः । कर्म कुर्वन्तीनि सम्बन्धः॥
४॥
For Private And Personal Use Only