________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kalassagarsun Gyanmandir
कर्मफलानि लभते । अतो विदितमेव शुभप्रदम्, निषिदं तु तया न भवतीति नियमो नास्तीत्यर्थः ॥९॥ धर्मादीनां फलनियमो नास्ति, सवै सर्वस्य । फलमित्यस्मिन् पक्षे स्थित्वा रावणेन सीताहरणं कृतमस्माभिश्वानुमतमित्याह-तत्र कृप्तमिति । तत्र राज्ञा कामसेव्यपि सुखानि लभत इति मतेल स्थितेन राज्ञा । इदं कार्य सीताहरणरूपं कार्यम् । हृदि ऋतं हृदि चिन्तितम् । नः अस्माकमपि । मतं संमतम् । शत्रौ शत्रुविषये यत साहसं स्यात् ।। अत्र अस्मिनु साइसकर्मणि किमिवापनीयते, न किञ्चित् कियते इत्यर्थः ॥ १०॥ एवं रावणस्याविमृश्यकारित्वपक्षं प्रतिक्षिप्य कुम्भकर्णस्यैकस्यैव पा
तत्र क्लप्तमिदं राज्ञा हृदि कार्य मतं च नः । शत्रौ हि साहसं यत् स्यात् किमिवात्रापनीयताम् ॥१०॥ एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया । तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च ॥११॥ येन पूर्व जनस्थाने बहवोऽतिबला हताःराक्षसा राघवं तं त्वं कथमेको जयिष्यसि ॥ १२॥ ये पुरा निर्जितास्तेन जनस्थाने महौजसः। राक्षसांस्तान पुरे सर्वान् भीतानद्यापि पश्यसि ॥ १३ ॥
तं सिंहमिव संक्रुद्धरामं दशरथात्मजम् । सर्प सुप्तमिवाबुध्य प्रबोधयितुमिच्छसि ॥१४॥ अभियानपक्षं निरस्यति-एकस्येत्यादिना । एकस्यासहायस्य । अभियाने युद्धाय निर्गमे। यो हेतुः बलपराक्रमरूपः । त्वया प्रकृतः प्रस्तावितः। तत्रापीत्यपिशन्देन पूर्व निराकृतः पक्षः समुच्चीयते । यदनुपपन्नम् अयुक्तम् । असाधु अहितं च । तद्वक्ष्यामि ॥११॥ अनुपपत्तिमुपपादयति-पेनेति ।। ॥ १२॥ असाधुत्वं दर्शयति-ये पुरेति । तान् तज्जातीयानित्यर्थः ॥ १३॥ तमिति । संकृद्धं सिंहमिव संकद्धसिंहसदृशम् । तमबुध्य अबुद्ध्वा । सुप्तं धर्मादीनां फलनियमो नास्तीति सर्व सर्वस्य फलमित्यस्मिन पक्षे स्थित्वा रावणेन कृतं सीतापहरणं राज्ञा इदि क्या कर्तव्यतया निश्चितम् । नः अस्माकमवि मतम् अनुमतम् । शत्रौ शत्रुविषये यत्साहसं कृतं स्यात् तत् किमिव किमिति । अत्र साहसे । अपनीयता पृषककृत्य प्रददर्यताम् । अस्मिन् पक्षे रावणेन अविचार्यकृतं किमपि दर्शयितुं न शक्यत इत्यर्थः ॥ १०॥ एवं रावणस्याविमुश्यकारितापक्षं प्रतिक्षिप्य कुम्भकर्णस्यैकस्यामियानपक्षं निरस्पति-एकस्येति एकस्यैवामियाने यो हेतुः पराक्रमरूपः कथितः उक्तः तत्र यदनुपपत्रम् अयुक्तं यच्चासाधु अहितं तदुभयमपि ते वक्ष्यामीत्यर्थः ॥ ११-१३ ॥ तमिति । M राम सिंहमिव सिंहसदृशम् । अबुध्य अबुवा । सुप्तं सर्पमिव प्रबोधयितुमिच्छसीत्यन्वयः ॥ १४ ॥ १५ ॥
For Private And Personal Use Only