________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
टी.मु.को
॥१९९॥
पE
तदेव प्रदर्शयति-कर्म चेत्यादिना । सर्वेषां कारणानां स्वर्गनरकरूपाणां फलानां कमैव प्रयोजकं साधकम् । जात्येकवचनम् । किन्तु अत्र कर्मजाते पापीयसानपि कर्मणां श्रेयः फलं भवति ॥७॥ उक्तमेवार्थ विशदयति-निश्श्रेयसेति । धर्मार्थों धर्मार्थसाधनभूते कर्मणी । इतरो अधर्मानर्थसाधन भूते कर्मणी च । निश्श्रेयसफलौ एतानि चतुर्विधानि निश्श्रेयसकराण्येव । किन्तु कदाचिधर्मानर्थयोःप्रत्यवायिकम्, अश्रेय इति यावत् । प्रत्यवायो ऽस्मिन् कारणतयाऽस्तीति प्रत्यवायिकम् । “अत इनिठनौ” इति ठन् । प्राप्यत इति प्राप्तिः फलम् । कर्मणि क्तिन् प्रत्ययः । एतेनाधर्मानर्थयो:
कर्म चैव हि सर्वेषां कारणानां प्रयोजकम् । श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ॥७॥ निश्श्रेयसफलावेव धर्मार्थावितरावपि । अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् ॥ ८॥
ऐहलौकिकपारत्रं कर्म पुम्भिनिषेव्यते । कर्माण्यपि तु कल्याणि लभते काममास्थितः॥९॥ श्रेयस्तदितरचोभयं फलं भवतीत्युक्तम् ॥ ८॥ एवं धर्माधर्मयोरव्यवस्थितफलत्वमुक्त्वा कामस्यापि तदाह-ऐहलौकिकेति । ऐहलौकिकम् इहलोको पयोगि । पारत्रं परलोकोपयोगि च कर्म पुम्भिनिषेव्यते । तत्फलं चानुभूयते । तथैव काममास्थितः यथेच्छाचारोऽपि कल्याणि कर्माणि कल्याणानि मुखफलकयागानुष्ठानादिधर्मानुष्ठानदशायो तात्कालिकशरीरायासदर्शनात् दुःखजनकपरद्रव्यापहरणाद्यधर्माचरणसमये तात्कालिकसुखदर्शनाच अर्थकामयो। रप्येवं दर्शनाच कर्मणामनियतफलत्वं मन्वानस्तदेव प्रदर्शयति-कर्म चैव हीति । सर्वेषां कारणानामुद्देश्यत्वेन कारणानां सुखानामित्यर्थः । कर्म पुण्यकर्म, प्रयोजकम् साधकमिति यावत् । कर्मेति जातावेकवचनम् । अत्रास्मिन पुण्यकर्मणि फलं भवति, अश्रेयोऽपीति शेषः । पापीयसां कर्मणां श्रेयश्च सुखं फलं भवतीति योजना ॥७॥ अमुमेवार्थ विशदयति-निश्श्रेयसफलाविति । धर्मार्थों धर्मार्थसाधनभूते कर्मणी इतराबपि अधर्मानर्थभूते ते कर्मणी च निश्श्रेयस फलावेव एतानि चतुर्विधान्यपि कर्माणि निदश्रेयसकराण्येवेत्यर्थः । किन्तु कदाचिदधर्मानर्थयोट प्रत्यवायिकं प्रत्यवायोऽस्य कारणतया विद्यत इति प्रत्यवायिक दुःखफलं च सुखं च प्राप्तिः प्राप्यत इति प्राप्तिः । कर्मणि तिन् । प्राप्यं भवतीत्यर्थः । एतेनाधर्मानर्थयोः श्रेयः तदितरच उभयमपि फलं भवतीत्युक्तं भवति ॥८॥ धर्मार्थयोरव्यवस्थितफलत्वमुक्त्वा कामस्याप्याह-पेहलोकिकेति । ऐहलौकिक पारत्रं कर्म ऐहलोकिकम् इहलोकोपयोगि कर्म, पारत्रं परलोकोपयोगि कर्म धर्मार्थकामरूपं पुम्भिनिषेव्यते तत्फलं चानुभूयते, किन्तु तथैव काममास्थितोऽपि यथेच्छाचारोऽपि कल्याणि कल्याणानि कर्माणि कर्मफलानि लभते अतो विहितमेव शुभप्रदम, निषिद्धं तु न भवतीति नियमो नास्तीत्यर्थः ॥९॥
......
V
॥१९॥
For Private And Personal Use Only