________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा.रा.भू.
सर्पमिव प्रबोधयितुमिच्छ्रसीत्यन्वयः ॥ १४ ॥ ज्वलन्तमिति । असह्यं सोढुमशक्यम् । अपरिहार्यपराक्रममित्यर्थः । आसादयितुमासादितुम् ॥ १५ ॥ २००॥ संशयस्थमिति । यत्र शत्रोः प्रतिसमासने प्रतिमुखस्थितौ इदं सर्व बलं संशयस्थं भवति । तत्र एकस्य तव गमनं न रोचते ॥ १६ ॥ हीनार्थं इति । हीनार्थः हीयमानबलः । कः पुमान् जीवितत्यागे विषये । निश्चित्य निश्चयं कृत्वा । सुसमृद्धार्थे वर्धमानबलं रिपुम्, प्राकृतं यथा क्षुद्रपुरुषमिव । वश ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम् । कस्तं मृत्युमिवासह्यमासादयितुमर्हति ॥ १५ ॥ संशयस्थमिदं सर्व शत्रोः प्रतिसमासने । एकस्य गमनं तत्र नहि मे रोचते भृशम् ॥ १६ ॥ हीनार्थः सुसमृद्धार्थ को रिपुं प्राकृतं यथा । निश्चित्य जीवित त्यागे वशमानेतुमिच्छति ॥ १७ ॥ यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम । कथमाशंससे योद्धं तुल्येनेन्द्रविवस्वतोः ॥ १८ ॥ एवमुक्त्वा तु संरब्धः कुम्भकर्ण महोदरः । उवाच रक्षसां मध्ये रावणं लोक रावणम् ॥ १९ ॥ लब्ध्वा पुनस्त्वं वैदेहीं किमर्थं सम्प्रजल्पसि । यदीच्छसि तदा सीता वशगा ते भविष्यति ॥ २० ॥ दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः । रुचिरश्चेत् स्वया बुद्धया राक्षसेश्वर तं शृणु ॥ २१ ॥ अहं द्विजिह्नः संह्रादी कुम्भकर्णो वितर्दनः । पञ्च रामवधायैते निर्यान्तीत्यवघोषय ॥ २२ ॥ ततो गत्वा वयं युद्धं • दास्यामस्तस्य यत्नतः । जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः ॥ २३ ॥
मानेतुमिच्छतीत्यन्वयः । जीवितत्यागे निश्चयोऽस्ति चेत्तं प्रति युद्धाय याहीत्यर्थः ॥ १७ ॥ यस्येति । यस्य मनुष्येषु सदृशो नास्ति । किन्तु देवयोः इन्द्रविवस्वतोः इन्द्रसूर्ययोस्तुल्येन तेन रामेणेति शेषः । योद्धुं कथमाशंससे ? वक्तुमेव न शक्यम्, किमुत कर्तुमिति शेषः ॥ १८ ॥ १९ ॥ लब्ध्वे त्यादिश्लोकद्वयमेकान्वयम् । सम्प्रजल्पसि बहुविधं भाषसे, अद्येति शेषः । यदीच्छसि, वक्ष्यमाणोपायमिति शेषः । तदा तदैव । मे मया । उप स्थानं स्वयमेव समीपागमनम् । रुचिरः प्रियः । स्वया बुद्धया शृणु, न तु परबुद्धिमनुसरेत्यर्थः ॥ २०-२२ ॥ तत इति । उपायैः सीताहरणोपायैः । संशयस्थमिति । शत्रोः प्रतिसमासने शत्रोः प्रतिमुखस्थितौ सत्याम् इदं सर्व संशयस्थम् अतः तत्र शत्रुसमीपे एकस्य गमनं मे न रोचत इति सम्बन्धः ।।। १६-२२ ॥ तत इति । उपायैः सीतावशीकरणोपायैः । कृत्यं साध्यं नास्ति ॥ २३ ॥
For Private And Personal Use Only
र्ट।.यु.कां.
स० [६४
॥ २००॥