________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१९८ ॥
वा.रा.भू. चिराय वशगा भविष्यतीत्यर्थान्तरम् ॥ ५७॥ इति श्रीगोविन्दराज० श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिषष्टितमः सर्गः ॥ ६३॥ अथ मन्त्रिकृतानयमसहमानो महोदरः कुम्भकर्णे निर्भर्त्सयति तदुक्तमित्यादिना । उक्तं सूचनं विना कण्ठरवेण दर्शितम् । अतिकायस्य महाशरीरस्य । प्रतिवचनानईत्वद्योतनाय विशेषणानि ॥ १ ॥ मन्त्रिभिः सहाविचार्यैव रावणेनाकार्ये कृतमिति, अहमसहाय एवं रामादिभियत्स्यामीति च यदुक्तं तदुक्तमतिकायस्य बलिनो बाहुशालिनः । कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः ॥ १ ॥ कुम्भकर्ण कुले जातो धृष्टः प्राकृतदर्शनः । अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ॥ २ ॥ न हि राजा न जानीते कुम्भकर्ण नयानयौ । त्वं तु कैशोरकादृष्टः केवलं वक्तुमिच्छसि ॥ ३ ॥ स्थानं वृद्धिं च हानिं च देशकालविभागवित् । आत्मनश्च परेषां च बुध्यते राक्षसर्षभः ॥ ४ ॥
कुम्भकर्णेन तदुभयं दूषयितुमाह- कुम्भकर्णेत्यादिना । कुले जातोऽपि प्राकृतदर्शन: क्षुद्रबुद्धिः । केवलं धृष्टः, न तु शास्त्रज्ञ इत्यर्थः । अवलिप्तः गर्वितः । त्वं सर्वत्र कार्ये । कृत्यं मन्त्ररूपम् । तद्वेदितुं न शक्नोषि ॥ २ ॥ 'केवलं वीर्यदर्पेण नानुबन्धो विचारितः' 'न स वेद नयानयो' इत्यादिना रावणोद्देशेन कुम्भकर्णोक्तं दूषयति-न हीत्यादिना । राजा नयानयो न जानीत इति न जानीत एवेत्यर्थः । किशोरः बालः तस्य भावः केशोरकं तस्मात् बाल्यात् । केवलं धृष्टः, न तु शास्त्रज्ञानेनेति भावः ॥ ३ ॥ स्थानमिति । देशकालविभागवित् विविक्तादिमन्त्रोचिततद्भिन्नयोः देशयोः तथा मन्त्रो चितानुचितयोश्च कालयोर्विभागं वेत्तीति तथोक्तः । राक्षसर्षभः रावणः । आत्मनः शत्रूणां च वृद्धिं हानिं स्थानं समतां च बुध्यते । रावणो देशकाल मित्यत्र गमिते अयम् अक्षयम् इति छेदः । मया रामे अक्षयं यथा तथा चिराय सीतावशं गमिते सति अयं रामः अद्य आगमिष्यति, बन्धुभूतस्सन अस्मद् गृहं प्रतीति शेषः । अतः ज्वरो विनीयताम् । स्वं कामं रमस्व । वारुणीं पिवेति सम्बन्धः ॥ ५७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतस्वदीपिका ख्यायां युद्धकाण्डव्याख्यायां त्रिषष्टितमः सर्गः ॥ ६३ ॥ तदिति । अतिकायस्थेति कुम्भकर्णविशेषणम् ॥ १ ॥ मन्त्रिभिस्सहाविचार्यैव रावणेनाकार्य कृतमिति, असहाय एव रामादिभिर्योत्स्यामीति च कुम्भकर्णेन यदुक्तं तदुभयं दूषयितुमाह- कुम्भकर्णेति । हे कुम्भकर्ण ! कुले जातः राजकुले जातोऽपि प्राकृतदर्शनों दृष्टः कुतः १ सर्वत्र सर्वदा अवलिप्तः सन् कृत्यं कर्तव्यं वेदितुं न शक्रोषीति सम्बन्धः ॥ २ ॥ न स वेद नयानयो' इत्यादिना रावणोद्देशेन कुम्भकर्णोक्तं दूष यति नहीत्यादिश्लोकद्वयेन । हिशब्दः काकर्थः । राजा नयानयो न जानीते हि न विजानीते किम् ? विजानीत एवेत्यर्थः । कैशोरकात बालभावात् ॥ ३॥ ४ ॥
1
For Private And Personal Use Only
fr.g.at. स० ६४
॥१९८॥