________________
Shri Mahavir Jain Aradhana Kendra
14
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
नन्विति । त्रिदिवं त्रिलोकी । आहारस्य न पूर्यते आहाराय न पूर्यते, न पर्याप्तमित्यर्थेः ॥ ५५ ॥ वधेनेति । सुखाईम् उत्तरोत्तरसुखावहम् । ते वधेन न॒न्विदं त्रिदिवं सर्वमाहारस्य न पूर्यते ॥ ५५ ॥ वन ते दाशरथेः सुखाई मुखं समाहर्तुमहं व्रजामि । निहत्य रामं सह लक्ष्मणेन खादामि सर्वान हरिमुख्यान ॥ ५६ ॥ रमस्व कामं पिब चायवारुणीं कुरुध्व कृत्यानि विनीयतां ज्वरः । मयाऽद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥ ५७ ॥ इत्यार्षे श्रीरामा
वाल्मीकी आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥
दाशरथेः सुखावहमित्यर्थान्तरम् ॥ ५६ ॥ रमस्वेति । मया निमित्तेन रमस्वेत्यादौ काकुः । इयम् अक्षयमिति च्छेदः । रामे विषये गमिता इयं सीता अद्य पश्य महाबाहो मया समरमूर्द्धनि - इत्यारभ्य श्रीराममुद्दिश्य कुम्भकर्णोक्त परुषवाक्यानां प्रातीति कार्यः स्पष्टः । वस्तुतस्तु यद्यपि कुम्भकर्णी रावणप्रीतयेऽपिवा श्रीराम निष्ठुर भाषणे प्रीतयेऽपिवा प्रवृत्तः, तथापि कुम्भकर्णवाणी प्रकारान्तरेण निस्सरति-अद्य पश्य महाबाहो मया इत्यादिना । 'शत्रूर्णा कदनं पश्य क्रियमाणं मया' इत्युक्तं त्वया । तदयुक्तं किन्तु सीता दुःखसंपादकरा महननेनास्मदादीन् विशोकान् कुर्विति राव णशङ्कायां तन्न शक्यमिति व्यङ्गयोक्त्या परिहरति-अद्य पश्येति सार्धं श्लोकचतुष्टयेन । व्यङ्गघोक्त यर्यमेषु श्लोकेषु विद्यमानक्रियापदानां वीप्साऽनुसन्धेया । तदित्थं योजना - रामे हते सति द्रवन्तीं हरिवाहिनीम् अद्य पश्य पश्य । रणादानीतं रामस्य शिरो दृष्ट्वा त्वं सुखी भव सुखी भव । सीता दुःखिता भवतु भवतु । शत्रुपक्षे हते सति ते शोको न भविष्यति न भविष्यति । लङ्कायां ये हतबान्धवा राक्षसाः ते रामनिधनं पश्यन्तु पश्यन्तु । शोकपरीतानाम् आश्रममार्जनं करोमि करोमि । अतः हे भ्रातः रावण ! एतत्सर्व न सङ्गतमिति भावः । किञ्चायं दुष्टराक्षससमागमः त्वद्वधाय भविष्यतीत्याशयेनाह कथमिति । कथं कथञ्चिदित्यर्थः । मया रक्षितोऽपि त्वं दाशरथिं जिघांसुभिः राक्षसैः वध्यस एवेति सम्बन्धः ॥ मम रामेण सह योढुं सामर्थ्य नास्तीत्याशयेनाह यदि मे मुष्टिवेगमिति । यदिशब्दो नूनमित्ययें । राघवो मे मुष्टिवेगं नूनं सहिष्यति ततो राघवस्य वाणौघाः मम रुधिरं पास्यन्ती त्यन्वयः । चिन्तयेति । उपरितन श्लोकस्था मुचेति क्रिया आकृष्यात्र श्लोके योजनीया । हे राजन् ! किमर्थं चिन्तया बाध्यसे ? तब शत्रुविनाशायाहमुद्यतोऽतो मुञ्च चिन्तामिति शेषः ॥ तर्हि रामं संहरेत्याशङ्कय तदशक्यमिति परिहरति-मुख रामादिति । रामाद्भयम्, अस्तीति शेषः । अतो रामं लक्ष्मणं च विनेति शेषः । सुग्रीवं हनुमन्तं हनिष्यामीति सम्बन्धः ॥ पूर्वोक्तमेतत्सर्वं करिष्यामि किन्तु तब तत्वं वदामीत्याह-बधेनेति । अत्र बधे इति सप्तमी । दाशरथेः रामस्य वधे सति तब सुखं न, किन्तु अहं सुखाई समाहर्तुं व्रजामि । तत्किमत आह-निहत्येति । लक्ष्मणेन सह वर्तमानं रामं विनेति शेषः । हरियूथमुख्यान्निहत्य सर्वान् खादा मीति सम्बन्धः । रामहननस्याशक्यत्वात् हरियूथमुख्यसंहारजनितसुखं तब सम्पादयिष्यामीति भावः ॥ ५६ ॥ ततः किमत आह-रमस्वेति । रामे गमितेयमक्षय
For Private And Personal Use Only