________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kalassagarsun Gyanmandir
भू.
॥१९॥
अथवेति । मृद्रतः प्रहरतः। प्रतिमुखे अग्रे ॥१५॥४६॥ यदीति । रामः प्रथमं मे मुष्टिप्रहारमेव न साहष्यते, कु.. 1॥१७॥रामानु०-यदीति । राघवो मुष्टिवेग यदि सहिष्यति ततः राघवस्य वाणीघा मे रुधिरं पास्यन्ति । रापयो मुष्टिवेगन सहिष्पत इति भावः ॥ ४॥ चिन्तयाते । उद्यतः,INI.....
गिरिमात्रशरीरस्य शितशुलधरस्य मे। नर्दतस्तीक्ष्णदंष्ट्रस्य विभीयाच्च पुरन्दरः॥ ४४ ॥ अथवा त्यक्तशस्त्रस्य मृगतस्तरसा रिपून् । न मे प्रतिमुखे स्थातुं कश्चिच्छतो जिजीविषुः ॥४५॥ नैव शक्त्या न गदया नासिना निशितैः शरैः। हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् ॥४६॥ यदि मे मुष्टिवेगंस राघवोऽद्य सहिष्यते। ततः पास्यन्ति बाणौधा रुधिरं राघवस्य तु ॥४७॥ चिन्तया बाध्यसे राजन किमर्थं मयि तिष्ठति । सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ॥४८॥ मुञ्च रामाद्भयं राजन् हनिष्यामीह संयुगे । राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् । हनुमन्तं च रक्षोघ्नं लङ्का येन प्रदीपिता ॥ ४९ ॥ हरीश्चापि हनिष्यामि संयुगे समवस्थितान् । असाधारणमिच्छामि तव दातुं महद्यशः॥५०॥ यदि चेन्द्राद्भयं राजन् यदि वापि स्वयम्भुवः ॥५१॥ अपि देवाः शयिष्यन्ते क्रुद्धे मयि महीतले । यमं च शमयिष्यामि भक्षयिष्यामि पावकम् । आदित्यं पातयिष्यामि सनक्षत्रं महीतले ॥ ५२ ॥ शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् । पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् ॥५३ ॥ दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् । अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः ॥५४॥ अस्मीति शेषः ॥४८॥ मुञ्चेत्यादिसाश्चोकद्वयमेकान्वयम् । अर्थान्तरम्-रामात् भयम्, अस्तीति शेषः । हनिष्यामीत्येतन्मुञ्चेति । दातुं खण्डितु | मित्यर्थान्तरम् ॥ १९॥५०॥ यदि चेत्यर्धम् । इन्द्रात् स्वयम्भुवश्च भयं यद्यस्ति तदपि मोचयिष्यामीत्युपस्कार्यम् ॥५१-५४॥ यदीति । स राघवो यदि मे मुष्टिवेगं सहिष्यति ततः राघवस्य बाणोधाः मे रुधिरं पास्यन्तीति । राधवो मे मुष्टिवेगं न सहिष्यत इति भावः ॥ ४७-५० ॥ यदि चन्द्रादिति । इन्द्रास्वयम्भुवश्च भयं यद्यस्ति, तदपि मोचयिष्यामीति शेषः ॥ ५१-५५ ।।
॥१९मा
For Private And Personal Use Only