________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
निहतबान्धवाः ते राक्षसाः पश्यन्तु । " न दुःखं पञ्चभिः सह " इति न्यायादिति भावः । उत्तरश्लोकेऽप्येवमेव योजना ॥ ३६ ॥ ३७ ॥ अथेति । ससूर्यमिव तोयदमिति । रुधिराक्कतया ससूर्यप्रकाशं मेघमिव स्थितमित्यर्थः ॥ ३८ ॥ कथमिति । ससैन्यं दाशरथिं जिघांसुभिः एभिः राक्षसैः मया च परिरक्षितस्त्वं कथं वध्यस इति योजना । अर्थान्तरम् - जिर्घासुभिः इननेच्छामात्रवद्भिः, पराक्रमासमथैरित्यर्थः । कथं परिरक्षितः १ प्रत्युत
अद्य शोकप्रीतानां स्वबन्धुवधकारणात् । शत्रोर्युधि विनाशेन करोम्यास्त्रप्रमार्जनम् ॥ ३७ ॥ अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् । विकीर्णे पश्य समरे सुग्रीवं प्लवगोत्तमम् ॥ ३८ ॥ कथं त्वं राक्षसैरेभिर्मया च परिरक्षितः । जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ॥ ३९ ॥ अथ पूर्व हते तेन मयि त्वां हन्ति राघवः । नाहमात्मनि सन्तापं गच्छेयं राक्षसाधिप ॥ ४० ॥ कामं त्विदानीमपि मां व्यादिश त्व परन्तप । न परः प्रेषणीयस्ते युद्धायातुलविक्रम ॥ ४१ ॥ अहमुत्सादयिष्यामि शत्रूंस्तव महाबल ॥ ४२ ॥ यदि शक्रो यदि यमो यदि पावकमारुतौ । तानहं योधयिष्यामि कुबेरवरुणावपि ॥ ४३ ॥
वध्यत इति । अत्र विभीषणः क्व गत इति कुम्भकर्णस्य प्रश्नः, मया धिकृतो गत इति रावणस्योत्तरं च क्वचित् कोशे दृश्यते तत्पूर्वापरविरुद्धम् ॥ ३९ ॥ अथेति । अत्र अथशब्दः प्रक्रमान्तरे । मयि इते सति हि पश्चात्त्व रामो हन्ति हनिष्यति । अहं च आत्मनि स्वस्मिन् सन्तापं शत्रुपरि भवजं न कदाचिदपि गच्छेयम्, न केनचिद्धन्तुं शक्य इत्यर्थः । अतः कुतस्ते भयमिति भावः । अर्थान्तरम् अहमात्मनि विषये सन्तापं न गच्छेयं न गच्छामि । " व्यत्ययो बहुलम् " इति लकारव्यत्ययः । मन्निधनं नानुशोचामीत्यर्थः । किन्तु मयि हते सति । अथ राघवस्त्वां हन्ति हनिष्यतीति सन्तापं गच्छामीति ॥ ४० ॥ काममिति । इदानीमपि इदानीमेव युद्धाय व्यादिश । ते त्वया परः अन्यः न प्रेषणीयः ॥ ४१ ॥ अहमित्यर्ध | मेकं वाक्यम् ॥ ४२ ॥ उक्तं विवृणोति - यदीति ॥ ४३ ॥ ४४ ॥
अवश्यमिति । सर्वावस्थं रोषहर्षादिसर्वावस्थास्वित्यर्थः ॥ ३२-३८ ॥ दाशरथिं जिघांसुभिः राक्षसैः परिरक्षितः कथं वध्यस दति सम्बन्धः ॥ ३९ ॥ अद्य पूर्व मिति । अहमात्माने विषये सन्तापं न गच्छामि किन्तु तेन मयि पूर्व हते सति अद्यैव राघवस्त्वां हन्ति इनिष्यतीति सन्तापं गच्छामीत्यर्थः ॥ ४०-४६ ॥
For Private And Personal Use Only