________________
Shri Mahas Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kalassagarsun Gyanmandit
चा.रा.म.
645
क्षुभितेन्द्रियमित्यनेन रुष्टपदं व्याख्यातम् । परिसान्त्वयन्नित्यनेन शुक्ष्णपदम् ॥ २९ ॥ अलमिति । ते त्वया सन्तापम् उपपद्य प्राप्य अलम्, सन्तापो न कर्तव्य इत्यर्थः । “अलंखल्लोः प्रतिषेधयोः प्राचां क्वा” इति क्त्वाप्रत्ययः । स्वस्थो भव, स्वर्गस्थो भवेत्यर्थान्तरम् ॥ ३०॥M नेतदिति । नैतन्मनसि कर्तव्यम्, विश्रमाञ्चित्तमोहादेत्युक्त मनसि न कर्तव्यमित्यर्थः । यत्कृते यस्य रामस्य कृते । अर्थान्तरं तु मयि जीवति सति |
अलं राक्षसराजेन्द्र सन्तापमुपपद्य ते । रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि ॥ ३० ॥ नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव । तमहं नाशयिष्यामि यत्कृते परितप्यसे ॥३१॥ अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव । बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ॥ ३२॥ सदृशं यत्तु कालेऽस्मिन् कर्तु स्निग्धेन बन्धुना । शत्रूणां कदनं पश्य क्रियमाणं मया रणे ॥ ३३ ॥ अद्य पश्य महाबाहो मया समरमूर्धनि । हते रामे सह भ्रात्रा द्रवन्ती परवाहिनीम् ॥ ३४ ॥ अद्य रामस्य तद दृष्ट्वा मयाऽऽनीतं रणाच्छिरः । सुखी भव महाबाहो सीता भवतु दुःखिता
॥३५॥ अद्य रामस्य पश्यन्तु निधनं सुमहत् प्रियम् । लङ्काया राक्षसाः सर्वे ये ते निहतबान्धवाः ॥ ३६॥ एतन्मनसि न कर्तव्यम् । यद्यहं जीविष्यामि तदा एवं न कर्तव्यम् । अहमेव न जीविष्यामीत्यर्थः। यत्कृते यस्य मम कृते । परितप्यसे अयं सुखेन ॥ जीवन मत्कार्य न करोतीति परितप्तोऽसि । तं मां रामेण नाशयिष्यामीति ॥३१॥ तर्हि किमर्थमेवमुक्तमित्यत्राह-अवश्यमित्यादि । बन्धुभावात सामान्यस्नेहात् विशेषतो भ्रातृस्नेहाच्च । सर्वावस्थं रोषहर्षादिसर्वावस्थावस्थितमित्यर्थः । अवश्यं वाच्यं ते हितं मयाऽभिहितम् ॥ ३२॥ अस्मिन् काले आपत्काले । स्निग्धेन बन्धुना यत्कर्तुं सदृशं युक्तम् तादृशं कदनं मया क्रियमाणं पश्य । अत्र शत्रुकर्तृकं कदनमित्यर्थान्तरम् ॥ ३३ ॥ अद्येति । अर्थान्तरम्-हे पर ज्येष्ठ ! मया सह समरमूर्धनि हते भग्ने सति रामे रामनिमित्तम्, द्रवन्तीम् आगच्छन्तीम् वाहिनी पश्यति ॥ ३४॥ अद्य रामस्येति । अर्थान्तरम्-मया सह रामस्य रणादेतोः आनीतं दूरे क्षिप्तम् । शिरः मच्छिरः। दृष्ट्वा सुखी भव, तदानीं मयि रोषत्यागादिति भावः।। सीता दुःखिता भवतु, सर्वलोकमातृत्वादिति भावः ॥ ३५॥ अद्य रामस्य पश्यन्त्विति। अर्थान्तरम-रामस्येति कतरि पष्टी। रामकर्तृक मनिधन मित्युक्तेदारुणत्वम् ॥ २८ ॥ २९ ॥ अलमिति । ते त्वया सन्तापमुपपद्य प्राप्य अलम्, सन्तापो न कर्तव्य इत्यर्थः ॥ ३०॥३१॥ तर्हि किमेवमुक्तमित्यत्राह
6
For Private And Personal Use Only