________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अशाखेति । शास्त्रानभिज्ञानां तेषां मन्त्रिणाम् । अहितं वचः अर्थशास्त्रानभिज्ञानाम् अथापि विपुलां श्रियमिच्छतां राज्ञां न कार्यम्, राजभिस्तदुक्त। प्रकारो नानुष्ठेय इत्यर्थः ॥ १५॥न केवलं तरचनाश्रवणम्, मन्त्रेषु बहिष्कार्याश्च त इत्याह-अहितमिति । वस्तुतः अहितं हिताकारं हितमिवापाततः प्रतीयमानमर्थम् । धाष्टात् शास्त्रज्ञानं विना केवलप्रागल्भ्यात् । ये जल्पन्ति अक्रमेण वदन्ति। कृत्यदूषणाः कार्यदूषकास्ते । अवेक्ष्य पूर्वमेव परीक्ष्य।
अशास्त्रविदुषां तेषां न कार्यमहितं वचः। अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥ १५॥ अहितं च हिता कारं धाष्टजिल्पन्ति ये नराः । अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः॥ १६॥ विनाशयन्तो भतारं सहिताः शत्रुभिर्बुधैः । विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः॥ १७॥तान भर्ता मित्रसङ्काशानमित्रान् मन्त्र निर्णये । व्यवहारेण जानीयात् सचिवानुपसंहितान् ॥ १८॥ चपलस्येह कृत्यानि सहसानुप्रधावतः । छिद्रमन्ये
प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ १९ ॥ मन्त्रबायाः मन्त्रबहिर्भूताः कर्तव्याः ॥१६॥ न केवलमहितवचनम्, विपरीतं च कुर्वन्तीत्याह-विनाशयन्त इत्यादि । मन्त्रिणः दुर्मन्त्रिणः । बुधैः
उपायज्ञैः। शत्रुभिः सहिताः प्रेरिताः । विनाशयन्तः विनाशार्थम् । इह प्रयोजनविषये। विपरीतानि विपरीतफलकानि कृत्यानि । भर्तारं कारयन्ति M॥१७॥ दुर्मन्त्रित्वनिर्णयोपायमाह-तानिति । उपसंहितानुपजापितान् उत्कोचप्रदानादिना शत्रुभिभेदं प्रापितान् । मित्रसङ्काशान् मित्रवद्भावयतः कार्यतोऽमित्रान् सचिवान् । व्यवहारेण व्यामिश्रभाषणेन जानीयात् ॥३८॥स्वयमसमर्था विपरीतबुद्धयो मन्त्रिणः किं करिष्यन्तीत्यत्राह-चपलस्यति ।
अहितमिति । कृत्यदूषणाः सिद्धार्थदूषकाः ॥ १५ ॥ विनाशयन्त इत्यादि श्लोकद्धयमेकं वाक्यम् । बुधैः उपायः । उपसंहितान उत्कोचादिना शत्रुभिर्वशीकृतान 5॥ १७ ॥ १८ ॥ चपलस्येति । इह प्रस्तुतकार्यविषये कुत्यानि उपसंहितमन्त्रिप्रेरितानि कार्याणि सहसा अनुधावतः कुर्वतः । चपलस्य राज्ञः छिद्रं रन्धम् ।
स-अधुनापि वर्जनीयानेवाह-विनाशयन्त इति । शता देती। भर्तारं स्वस्वामिनम् । बुधैः अविज्ञमन्त्रिकत्वज्ञानः शत्रुभिः स्वराजविद्वेषिभिः । विपरीतानि राजमरणराज्यहरणादिकारणानि कृत्यानि कारयन्ति । ते मन्त्रिणो निन्दितनन्त्रिगः, मनमायाः कर्तव्या प्रत्यर्थः । “ भूमनिन्दाप्रशंसासु" इत्युलेनिन्दायामपमिनिः । “केचिन्सुमन्त्रिणः" इत्यादि नागोजिभव्याख्याने बुधमन्त्रिमुखशब्दयोजनाज्ञान पदारढोणेति शेवम् । तथा स्वरक्षणं कुर्वन्तीति शेष इति विशेषोऽपि तन्मूलक एव । प्रकरणाननुकूलता च वालानामपि भासत इत्यनादरणीयं तदिति दिक्॥१७॥
44
For Private And Personal Use Only