________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
फलं प्रामोतीत्यर्थः॥७॥ यथागर्म नीतिशास्त्रमनतिक्रम्य । यो राजा समयं कार्यनिर्णयं चिकीर्षति सचिवांश्च बुध्यते सचिवैः सहालोचयतीति यावत् । सुहृदश्चानुपश्यति सुहृद्भिः सह विचारयतीति यावत् । स सभ्ये पथि वर्तत इति पूर्वेणान्वयः॥ ८॥ धर्ममर्थ कामं च प्रत्येकं वा । त्रीणि बन्दानि वा धर्मायौँ अर्थधर्मों कामार्थों वा, सर्वान् वा। कालेषु विहितेषु प्रातमध्याह्नसायाह्नेषु भजेत अकाले न सेवेतेति मावः। एतदुक्तं भवति ।
यथागमं च यो राजा समयं विचिकीर्षति ।बुध्यते सचिवान् बुद्ध्या सुहृदश्चानुपश्यति ॥८॥ धर्ममर्थं च कामं च सर्वान वारक्षसां पते । मजेत पुरुषःकाले त्रीणि इन्द्रानि वा पुनः ॥९॥
त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तनावबुध्यते।राजा वा राजमात्रो वा व्यर्थ तस्य बहुश्रुतम् ॥१०॥ प्रातःकाले धर्मो विहितः, तं तदा सेवेत । मध्याह्ने अर्थो विहितः, तं तदा सेवेत । सायंकाले कामो विहितः, तं तदा सेवेतेति । यद्वा प्रातःकाले स्वकाल विहितं धर्म मध्याह्ने विहितमर्थ च सेवेत । मध्याह्ने स्वकालविहितमर्थ प्रातर्विहितं धर्म च सेवेत । सायंकाले स्वकालविहितं कामं मध्याह्नविहितमर्थ च सेवेत। अथवा सायंकाले स्वविहितं कामं प्रातमध्याह्नयोर्विहितो धर्मार्थों च सेवेतेति। केवलकामं सर्वकालेष्वपि सेवमानः पुरुषाधम एवेत्यभिसन्धिः ॥९॥ एवं कर्तव्यमुक्त्वा तदकर्तारं निन्दति-त्रिष्विति । एतेषु पूर्वोक्तेषु त्रिषु भजनेषु धर्मार्थकामेषु वा । यच्छेष्टं प्रत्येकभजनम्, धर्मों वा । तच्छ्रुत्वा यो राजा वा राजमात्रो वा राजसदृशो वा नबुध्यते आचरितुं न जानाति । तस्य बहुश्रुतं शास्त्रश्रवणं व्यर्थम्, अनुष्ठानपर्यवसानाभावादिति भावः। एवं सामान्यरूपया अप्रस्तुतप्रशंसया त्रिवर्गेषु श्रेष्ठं धर्म परित्यज्य जघन्य काममेवाश्रितस्य ते शास्त्रश्रवणं समुद्रघोषमात्रमासीदिति प्रस्तुतोऽर्योऽव देशकालविभागः, विपत्तेश्च प्रतीकारः, कार्यसिद्धिश्चेति ॥ ७ ॥ यो राजा यथागमं यथानीतिशास्त्रम् । समयं कार्यनिर्णय विचिकीति सचिवांश्च बुद्धचते, सचिवे स्सहालोचयतीत्यर्थः । सुहृदश्चानुपश्यति सुहृदबावेक्षते ! यद्वा सुद्भिः सह विचारयति स सभ्ये पपि वर्तत इति पूर्वेण सम्बन्धः ॥८॥ धर्ममिति । काले| विहितपूर्वाहमध्याहसायाहकाले धर्मम् अर्थच कामं च प्रत्येकं पुरुषो भजेत । त्रीणि द्वन्द्वानि वा प्रातःकालविहितं धर्म मध्याहविहितमर्थ च प्रातःकाले भजेत, मध्यावविहितमर्थ प्रातःकालविहितं धर्म च मध्याहे भजेत, सायंकालविहितं कामं मध्याइविहितमर्थ च सायङ्काले भजेत, सर्वान्वा सायालविहित कामं पातमध्याइविहिती धर्मायाँ च सायवाले अवैषम्येण भजेत, कालव्यत्ययेन भजेतेत्यर्थः॥ ९॥त्रिषु चेतेषुधर्मार्थकामेषु यच्छ्रेष्ठं धर्मरूपं वस्तु । यद्वा विपुल त्रिविधेष्येतेषु पूर्वोक्तपक्षेषु यरष्ठं प्रशस्ततरं तच्छ्रुत्वा राजा वा राजमात्रो वा राजसत्शोवा नावबुध्यते आचरितुं न जानातितस्प बहुभुतं व्यर्थमित्यर्थः ॥१०॥
For Private And Personal Use Only