SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वा.रा.भू. ४१९३॥ www.kobatirth.org अपरकार्याणि उत्तरकाले विचायाणि च पूर्व कुयात् । सः नयानयाँ नोत्यनीती न वंद ॥ ५ ॥ एवं देशकालानुरोधेन कर्म कर्तव्यमित्युक्तम् तदननुरोधे दोषमाह-देशेति । देशकालविहीनानि क्रियमाणानि । अदेशे अकाले च कृतानि कर्माणि । विपरीतवत् देशकालवैकल्याद्विपरीतकर्मा णीव । अप्रयतेषु मन्त्रानध्ययनादिना अपूतेषु अपात्रेषु हवींपीव दुष्यन्ति विफलानि भवन्तीत्यर्थः ॥ ६ ॥ देशकालानुरोधस्य फलमाह - त्रयाणा मिति । सचिवैः मन्त्रिभिः सह । समयं निश्चयरूपं सिद्धान्तं कृत्वा । “समयाः शपथाचार कालसिद्धान्तसंविदः” इत्यमरः । त्रयाणाम् उत्तममध्यमाधम देशकालविहीनानि कर्माणि विपरीतवत् । क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ ६ ॥ त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति । सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ॥ ७ ॥ Acharya Shri Kalassagarsuri Gyanmandir | कर्मणाम् । तत्र आत्मोदयपरज्यानिसम्भवसमये क्रियमाणं दण्डोपयोगि यानमुत्तमं कर्म । आत्मपरयोः बलसाम्ये क्रियमाणं सन्धानं मध्यमं कर्म । परोदयात्मज्यानिसमये क्रियमाणं दानपूर्वसमाश्रयणमधमं कर्म । तेषां पञ्चधा योगम् - कर्मणामारम्भोपायः, पुरुषद्रव्यसंपत्, देशकालविभागः, विनिपातप्रतीकारः, कार्यसिद्धिश्चेत्युक्तेः पञ्चभिर्योगम् । यद्वा त्रयाणाम् उत्तममध्यमाधमभावेन त्रिविधानां कर्मणाम् । पञ्चघा योगं देशकालात्मद्रव्य | प्रयोजनसम्बन्धवशात् पञ्चविधं संबन्धम् । यः पश्यति सः सभ्ये साधौ । “सभ्यः सामाजिके साधौ” इति रत्नमाला । पथि नीतिमार्गे वर्तते सम्यनीति त्वया तु तद्विपरीतमेव कृतमित्यभिप्रेत्याह-यः पश्चादिति । पूर्वकार्याणि पूर्वस्मिन् काले कर्तव्यानि पश्चात्कुर्यात् । उत्तरकार्याणि उत्तरस्मिन् काले कर्तव्यानि पूर्व कुर्यादिति सम्बन्धः ॥ ५ ॥ देशकालवैपरीत्येन कृतस्य कर्मणो दोष प्रदर्शयति- देशकालेति । अनुकूलान्यपि कर्माणि स्वोचितदेशकालवियुक्तानि क्रियमाणानि चैव विपरीतवदुष्यन्ति प्रतिकूलकर्मभिस्तुल्यं विरुद्धफलानि भवन्तीत्यर्थः । हवींषि च पुरोडाशादीनि । अमयतेष्विव असावधानजनेविष, अरुचिजनेष्विति यावत् ॥ ६ ॥ देशकालविरोधे फलवैपरीत्यमुक्त्वा इदानीं तदविरोधे फलमाह त्रयाणामिति । सचिवैः समयं निश्चयम् । त्रयाणाम् उत्तममध्यमाधमभावेन त्रिवि धानां कर्मणाम् । एषूत्तमं कर्म नीतिशास्त्रोक्तम् आत्मोपचयपरज्यानिसम्भवसमये क्रियमाणं दण्डोपयोगि यानमुत्तमं कर्म | आत्मपरयोः बलसाम्ये क्रियमाणं साम साध्यं सन्धानं मध्यमं कर्म । परोपचयात्मग्लानिसमये क्रियमाणं दानपूर्वक समाश्रयणमधमं कर्म । एतादृशत्रिविधकर्मणां पञ्चधा योगं देश कालात्मद्रव्यप्रयोजन सम्बन्धवशात् पञ्चविधं सम्बन्धम् यः पश्यति स सभ्ये पथि वर्तते, साधीयान् भवतीत्यर्थः । यद्वा एवं पञ्चधा योगः कर्मणामारम्भोपायः, पुरुषद्रव्यसम्पत्, For Private And Personal Use Only टी.सु.क. ०६३ ॥ १९३॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy