________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsur Gyanmandir
पायथानेहम् । आवयोः प्रीत्यनुरूपमित्यर्थः॥२३॥ इति श्रीगोविन्दराजविरचिते श्रीरामा रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्विषष्टितमः सर्गः॥१२॥॥
अथ कुम्भकर्णबुद्धिविपष्टितमे-तस्येत्यादि । परिदेवितं पूर्वोक्तवचनानां परिदेवनतुल्यत्वात् परिदेवितत्वम् । कुम्भकर्णों वचनं बभाषे जहास चेत्यत्र व्यत्ययः कार्यः । उक्त्वा जहासेति वाऽर्थः॥ १॥ पुरा मन्त्रनिर्णये कियमाणे । अस्माभिः यो दोषो दृष्टः शत्रुभिस्तवापत् भविष्यतीति निश्चितः। हितेषु हितपरषु । अनभिरक्तेन असक्तेन, हितपरवचनमशृण्वतेत्यर्थः। त्वया सोऽयं दोष आसादितः, पूर्वमेव चिन्तिता विपत् प्राप्तेत्यर्थः॥२॥
तस्य राक्षसराजस्य निशम्य परिदेवितम् । कुम्भकर्णो बभाषेदं वचनं प्रजहासच ॥१॥ दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये। हितेष्वनभिरक्तेन सोऽयमासादितस्त्वया ॥२॥ शीघ्र खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः। निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ॥ ३ ॥ प्रथमं वे महाराज कृत्यमेतदचिन्तितम् । केवलं वीर्यदर्पण नानुबन्धो विचारितः ॥ ४॥ यः पश्चात् पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः । पूर्व चापरकार्याणि न स वेद नयानयौ ॥५॥ पापस्य सीताहरणरूपस्य कर्मणः फलं त्वां शीघ्रम् अभ्युपेतं प्राप्तम् । “अत्युत्कटः पुण्यपापरिहैव फलमभुते " इति न्यायात् । अत्रोदाहरण माह निरयेष्विति । दुष्कृतकर्मणः महापातकिनः पुरुषान् । निरयेष्वेव पतनं यथा प्राप्नोति तद्वत् । एक्कारेणापरिहार्यत्वमुच्यते ॥३॥ प्रथममिति । हे महाराज ! केवलं वीर्यदर्पण एतत्कृत्यं सीताहरणरूपं कार्य वै। प्रथम सीताहरणात् पूर्वम् । न चिन्तितम् साच्चसाधु वेति त्वया न विचारितम् । अनुवभ्रातीत्यनुबन्धः दोषोत्पादः । “दोषोत्पादेऽनुबन्धः स्यात्" इत्यमरः॥४॥ प्रथमं विचार्य पश्चात् कर्म कर्तव्यमिति प्रेक्षावतां कृत्यम्, त्वया तु तद्विपरीतं कृतमित्याह-य इति । ऐश्वर्यम् आस्थितः प्राप्तः यः पुमान् पूर्वकार्याणि कार्यारम्भात पूर्व कर्तव्यानि मन्त्रणादीनि कुर्यात् ।
कुरुष्वेति योजना ॥ २३ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां द्विषष्टितमः सर्गः ॥ ६२ ॥ Mar ॥२॥ शीघ्रमिति । दुतकर्मणः पुरुषस्य निरयेवेव पतनं यथा तथा पापस्थ कर्मणः सीताहरणरूपस्य फ
स्थ कर्मणः सीताहरणरूपस्य फलं शीघ्रं त्वामभ्युपेतं प्राप्तम् ॥ ३॥ प्रथम पापस्य कर्मणो विधानात्प्रागेवेतत्कृत्यफलभूतमेतद्रामागमनलङ्कादाहादिकं न चिन्तितम, फलत्वेन न विचारितमित्यर्थः । अनुबन्धोऽपि न विचारिता, अनु । बनातीत्यनुबन्धो दोषोत्पादः। “दोषोत्पादेऽनुवन्धः स्यात् " इत्यमरः । तत्कृतदोषो न विचारित इत्यर्थः॥४॥ प्रेक्षावता पुरुषेण प्रथम विचार्य पश्चात्कर्तव्यम्,M स०-दं दातारं रावणं प्रति बभाधे जहास । विभीषणमाल्यवदायुक्त न धुतमत इयं दशेति दशानने निरीक्ष्य हास इति भावः। "द दाने छेदे च दातार " रति विश्वः । रमापेऽयेत्यपि कचित्पाठः ॥१॥
र९४%
क
For Private And Personal Use Only