________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१९२॥
-रा.भू. मूलकृन्तनमुपपादयति-हन्तेति । लङ्कायां वनान्युपवनानि च सर्वम् । सेतुना सुखमागम्य स्वनिर्मितसेतुमात्रेण सुखमागम्य । रामेण वानरैकार्णवीकृतं वानररूपैकार्णवीकृतम् । पश्यस्व । आत्मनेपदमार्षम् । यद्वा स्वलङ्कायामिति छेदः । आत्मीयलङ्काद्वीप इत्यर्थः ॥ १५-१७ ॥ तदेतत् एतादृशम् ।। हन्त पश्यस्व लङ्कायां वनान्युपवनानि च । सेतुना सुखमागम्य वानरैकार्णवीकृतम् ॥ १५ ॥ ये रक्षसां मुख्यतमा हतास्ते वानरैर्युधि । वानराणां क्षयं युद्धे न पश्यामि कदाचन ॥ १६ ॥ न चापि वानरा युद्धे जितपूर्वाः कदाचन ॥ १७ ॥ तदेतद्भयमुत्पन्नं त्रायस्वेमां महाबल। नाशय त्वभिमानद्य तदर्थं बोधितो भवान् ॥ १८ ॥ सर्वक्षपित कोशं च स त्वमभ्यपद्य माम् । त्रायस्वेमां पुरीं लङ्की बालवृद्धावशेषिताम् ॥ १९ ॥ भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् । मयैवं नोक्तपूर्वो हि कच्चिद्र भ्रातः परन्तप ॥ २० ॥ त्वय्यस्ति तु मम स्नेहः परा सम्भावना च मे । देवासुरेषु युद्धेषु बहुशो राक्षसर्षभ । त्वया देवाः प्रतिव्यूह्य निर्जिताश्वासुरा युधि ॥ २१ ॥ तदेतत् सर्वमातिष्ठ वीर्यं भीमपराक्रम । न हि ते सर्वभूतेषु दृश्यते सदृशो बली ॥ २२ ॥ कुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरण बान्धवप्रिय । स्वतेजसा विधम सपत्नवाहिनीं शरदधनं पवन इवोद्यतो महान् ॥ २३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥
भयमुत्पन्नम् । अस्माद्भयादिमां पुरीं त्रायस्व । इमान् वानरान् नाशय । तदर्थं नाशनार्थम् ॥ १८ ॥ सर्वक्षपितेति । सर्वक्षपितकोशं क्षपितसर्वैश्वर्यम् "कोशोऽस्त्री कुड्मले खङ्गपिधानेऽथषदिव्ययोः” इत्यमरः । अभ्यवपद्य जानीहीत्यर्थः । बालवृद्धावशेषितामित्यतिशयोक्तिः । मूलबलायुत्सादनस्य वक्ष्यमाणत्वात् ॥ १९ ॥ कञ्चिदिति प्रभे । कदाचिदपि नोक्तपूर्वोऽसीत्यर्थः । कश्चिदिति पाठे त्वदन्यः कश्चिदपि नैवमुक्तपूर्व इत्यर्थः ॥ २० ॥ सम्भावना आदरः । देवासुरेषु देवासुरसम्बन्धिषु । प्रतिव्यूह्य विभज्य । असुराः असुरा अपीत्यर्थः ॥ २१ ॥ आतिष्ठ अवलम्बस्व ॥ २२ ॥ यथाप्रियं स्वलङ्कायाम् आत्मीयलङ्काद्वीपे । वानरैकार्णवीकृतम्, एतत्सर्वमिति शेषः ।। १५-१८ ।। सर्वक्षपितकोशं क्षपितसर्वैश्वर्यम् ॥ १९ ॥ २० ॥ परा सम्भावना अत्यादरः ॥ २१ ॥ वीर्यमातिष्ठ वीर्यमवलम्बस्व ॥ २२ ॥ कुरुष्वेति । हे प्रियरण ! पतदुत्तमं हितं यथामियं यथास्नेहम्, आवयोः स्नेहानुरूपमिति यावद
For Private And Personal Use Only
टी. यु.कां.
स० ६२
॥१९२॥