________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
indian
अथेति । सन्निकर्ष समीपम् ॥ ७॥ कृत्यं मया कर्तव्यम् ॥८-१०॥ किमर्थमिति । आहत्य, स्थितेनेति शेपः। शंसति । तमिति शेषः । प्रेतो।। भविष्यति मृतो भविष्यति॥ ११॥ भ्रातरमिति । ईषत् परिवृत्ताभ्यामित्यनेन ईपत् कोपो लक्ष्यते ॥ १२॥ ईषत्त्वमेव विवृणोति-अद्येत्यादिना ।
भ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितम् । कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ ५॥ सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च । ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् ॥ ६॥ अथ दृष्ट्वा दशग्रीवः कुम्भकर्ण मुपस्थितम् । तूर्णमुत्थाय संहृष्टः सन्निकर्षमुपानयत् ॥७॥ अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः। भ्रातु
वन्दे चरणौ किं कृत्यमिति चाब्रवीत् ॥ ८॥ उत्पत्य चैनं मुदितो रावणः परिषस्वजे । स भ्रात्रा सम्परिष्वक्तो यथावच्चाभिनन्दितः ॥९॥ कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् । स तदासनमाश्रित्य कुम्भकर्णो महावलः। संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् ॥ १०॥ किमर्थमहमादृत्य त्वया राजन विवोधितः । शंस कस्माद्भयं तेऽस्ति कोऽद्य प्रेतो भविष्यति ॥ ११ ॥ भ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम् । ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् ॥ १२ ॥ अद्य ते सुमहान् कालः शयानस्य महाबल। सुखितस्त्वं न जानीषे मम रामकृतं भयम्
॥ १३ ॥ एष दाशरथी रामः सुग्रीवसहितो बली । समुद्रं सबलस्तीा मूलं नः परिकृन्तति ॥ १४ ॥ सुमहान् कालः नवदिनपरिमितः, गतः इति शेषः ॥ १३ ॥ मूलं मूलबलम् । परिकृन्तति बाधत इत्यर्थः ॥१४॥ कक्ष्यामभिविगाह्म द्वारं ती ॥ ६ ॥ उपस्थितम् अवस्थितम्, प्रातमिति यावत् ॥ ७-१२ ॥ सुमहान कालः, अतीत इति शेषः ॥ १३ ॥ १४ ॥ | स-पुनस्समुदितोत्पत्य रावणः इति पाठः । सजुदितो रावणः । उत्पत्य आसनादुत्यायेत्यर्थः । सन्धिरा रति नागोनिमः । समुदितं यथा भवति तथा उत्पत्य " सुप् सुपा " इति समासे ऐकपा ज्ञेयम् । मुदितः अत् पत्त्येति छेदः । अत् आश्वयं यथा मवति तथा पतित्वाऽत्पत्य । व्याख्यातं चाइतपदव्याख्यानावसरे अदिल्याश्चर्यार्थकमव्ययमिति वा ॥ ९॥ रोषेण परिवृत्ताम्यां नेत्राम्यामुपलक्षितं क्रुद्ध मातरं कुम्भकर्ण रावणोऽत्रीदिति नागोजिभः । रोषेण परिवृत्ताम्यां नेत्राम्यां पार्थद्वयवार्तिनेत्रत्वेन द्विवचनं भुजाभ्यामितिवत् । तदुपलक्षितो रावणो वाक्यमुवाचेत्यन्वयो वा । अस्मिन् पक्षे क्रुहप दं|
नाधिकम् ॥१२॥
For Private And Personal Use Only