________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू. ॥१९॥
सर्व सायुधाः शैलपाणयः इति पाठः । सायुधाः खङ्गाद्यायुधवन्तः॥३६-३८ ॥रामति । परवाहिनी नगररक्षार्थ बहिश्चरन्तीम् । यदा कुम्भकर्ण दृष्ट्वा टी.यु.का! पलायमानान् वानरान् प्रत्यनुद्रुतां परवाहिनीमित्यर्थः ॥ ३९ ॥ शैलोयतदीप्तहस्तं शैलोद्यताः उद्यतशैलाः । महन्महाम्भोधरजालम्, महत् गुरुस०६२ महाम्भोधरजालं मेघजालमित्यर्थः ॥४०॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकषष्टितमः सर्गः ॥६॥
रामवाक्यमुपश्रुत्य हरयो जितकाशिनः । पादपैरर्दयन् वीरा वानराः परवाहिनीम् ॥ ३९ ॥ ततो हरीणां तदनीक मुग्रं रराज शैलोद्यतदीप्तहस्तम् । गिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम् ॥ ४० ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे एकषष्टितमः सर्गः ॥ ६ ॥ स तु राक्षसशार्दूलो निद्रामदसमाकुलः । राजमार्ग श्रिया जुष्टं ययौ विपुलविक्रमः॥१॥राक्षसानां सहस्त्रैश्च वृतः परमदुर्जयः। गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ॥२॥ स हेमजालविततं भानुभास्वरदर्शनम् । ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ॥ ३॥ स तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोधिपतेनिवेशम् । ददर्श दूरेऽग्रज
मासनस्थं स्वयम्भुवं शक इवासनस्थम् ॥ ४॥ अथ कुम्भकर्ण प्रति रावणस्य सान्त्ववचनं द्विषष्टितमेस वित्यादि । निद्रामदसमाकुलः निद्रया अकालोत्थितत्वेनानुवर्तमानया, मदेन मद्यपानकृतेन । च समाकुलः । गृहेभ्यः, निर्गतेनेति शेषः ॥३॥२॥ हेमजालविततं स्वर्णमयगवाक्षविततम् । भानुभास्वरदर्शनम्, दृश्यत इति दर्शनं रूपम् । भानुवत् । प्रकाशमानमित्यर्थः॥३॥ स इति । दूरे कक्ष्यान्तरप्रदेशे ददर्श । उन्नतपुष्पकवत्त्वादिति भावः ॥४-६॥ परवाहिनीं पुरादहिनिर्गत्य पुरीपरिसररक्षिणी राक्षससेनामित्यर्थः ॥ ३५ ॥ शैलोद्यतदीप्तहस्तन उद्यतशैलदीप्तहस्तम् ॥४०॥ इति श्रीमहेश्वरतीर्थविरचिताय ॥१९॥ श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायाम् एकषष्टितमः सर्गः ॥ ६१ ॥१॥ राक्षसानामिति । गृहेभ्यः, निर्गतेनेति शेषः ॥२-५॥
स०-गृहेभ्यः तस्थितस्त्रीकारेभ्यः । यद्वा गृहेभ्यः परमार्याभ्यः "गृहिणी गृहमुच्यते" इति वचनान् । राक्षसानां गृहेभ्यः इत्यप्यन्वयो वा ॥ २ ॥ अनजालं जलमत्तादशाथामिन्द्रनीलखचनात् तदभाव दशायाँ बजेष तनिदर्शनतोचितेति न मानुभास्वरेति विरोषः । अथवा अमजं रावणम् अनजालमिव ददर्शयन्वषः ॥ ॥
For Private And Personal Use Only