________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षण्मासानित्येतदवनिषेधपरम् । अन्यथा 'नव षट् सप्त चाष्टौ च मासान्' इति पूर्वोक्तविरोधात् ॥ २९ ॥ सोऽसौ रावणः ॥ ३० ॥ शिबिरात् स्वनिलयात् । भक्षयन् परिधावति भक्षणहेतोः परिधाविष्यति । "लक्षणत्वोः क्रियायाः " इति शतृप्रत्ययः । वर्तमानसामीप्यादिना भविष्यदर्थे शयिता ह्येष षण्मासानेकाहं जागरिष्यति । एकेनाह्ना त्वसौ वीरश्वरन् भूमिं बुभुक्षितः । व्यात्तास्यो भक्षये लोकान सक्रुद्ध इव पावकः ॥ २९ ॥ सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् । त्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः ॥ ३० ॥ स एष निर्गतो वीरः शिबिराद्भीमविक्रमः । वानरान् भृशसंक्रुद्धो भक्षयन् परिधावति ॥ ३१ ॥ कुम्भकर्ण समीक्ष्यैव हरयोऽद्य प्रविद्वताः । कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ॥ ३२ ॥ उच्यन्तां वानराः सर्वे यन्त्रमेतत् समुच्छ्रितम् । इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ॥ ३३ ॥ विभीषणवचः श्रुत्वा हतुमत् सुमुखेरितम् । उवाच राघवो वाक्यं नीलं सेनापतिं तदा ॥ ३४ ॥ गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके । द्वाराण्यादाय उङ्कायाश्चर्याश्चाप्यथ सङ्क्रमान ॥ ३५ ॥ शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहर । तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः ॥ ३६ ॥ राघवेण समादिष्टो नीलो हरिचमूपतिः । शशास वानरानीकं यथावत् कपिकुञ्जरः ॥ ३७ ॥ ततो गवाक्षः शरभो हनुमानङ्गदस्तथा । शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ॥ ३८ ॥ लट् ॥ ३१ ॥ ३२ ॥ उच्यन्तामिति । यन्त्रं विभीषिका । समुच्छ्रितमुन्नतम् ॥ ३३ ॥ सुमुखेरितं सुमुखं यथा भवति तथा ईरितम् उक्तम् ॥ ३४ ॥ गच्छेत्यादिश्लोकद्वयम् । आदाय स्वीकृत्य, आवृत्येति यावत्॥३५॥ उपसंहर राशीकुरु । युद्धसाधन शिलादिकमिदानीमेव सम्पादयेत्यर्थः । तिष्ठन्तु वानराः शयितेति । षण्मासान् शबिता, एकाहं जागरिष्यति इत्यनेन 'नव षट् सप्त चाष्टौ च मासान् स्वपिति राक्षसः' इत्युक्तप्रकारेण निद्रायाः कालनियमस्यानुक्तत्वात् निद्रायाः मासषास्नता नास्तीत्युक्तम् । 'एकादं जागरिष्यति' " एकेनाद्वा त्वसौ वीरश्वरन भूमिं बुभुक्षितः । व्यात्तास्यो भक्षयेलोकान्" इत्यनेन जागरणकाल नियमस्पोक्तत्वादे का जागरणमित्युक्तं भवति ॥ २९ ॥ ३० ॥ स एष इति । भक्षयन् "लक्षणहेत्वोः क्रियायाः" इति हेतौ शतृप्रत्ययः शिबिरात स्वगृहात परि धावति परिधाविष्यति । “वर्तमानसामीप्ये वर्तमानवद्वा " इति भविष्यदर्थे लट् ॥ ३१ ॥ ३२ ॥ यन्त्रं विभीषिका ॥ ३३-३५ ॥ उपसंहर सवितु ॥ ३६-३८ ।
For Private And Personal Use Only