SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org विरूपाक्षं विकटाक्षम् । मोहिताः भ्रान्ताः ॥ ११ ॥ प्रकृत्या तेजस्वी स्वप्रभावेन बलवान्, न तु वरप्रदानेनेत्यर्थः । अन्येषां रावणादीनाम् भवतीति शेषः ॥ १२ ॥ प्रकृत्या तेजस्वित्वमुपपादयति- एतेनेत्यादिना ॥ १३-१५ ।। तस्येति । नानद्यमानस्य अतिशयेन नदतः । वित्रस्ता भूमिः भूयो शूलपाणिं विरूपाक्षं कुम्भकर्ण महाबलम् । हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः ॥ ११ ॥ प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः । अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ॥ १२ ॥ एतेन जातमात्रेण क्षुधार्तेन महात्मना । भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि ॥ १३ ॥ तेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः । यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ॥ १४ ॥ स कुम्भकर्ण कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री । स शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ॥ १५ ॥ तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः । श्रुत्वाऽतिनादं वित्रस्ता भूयो भूमिर्वितत्रसे ॥ १६ ॥ तत्र कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः । विकृष्यैरावताद्दन्तं जघानोरसि वासवम् ॥ १७ ॥ कुम्भकर्णप्रहारार्तो विजज्वाल सवासवः । ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः ॥ १८ ॥ प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः । कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ॥ १९ ॥ प्रजानां भक्षणं चापि देवानां चापि वर्षणम् । आश्रमध्वंसनं चापि परस्त्रीहरणं भृशम् ॥ २० ॥ एवं प्रजा यदि त्वेष भक्ष यिष्यति नित्यशः । अचिरेणैव कालेन शून्यो लोको भविष्यति ॥ २१ ॥ Acharya Shri Kailassagarsuri Gyanmandir वितत्रसे उत्तरोत्तरं भीताऽभूत् ॥ १६ ॥ तत्र तदानीम् । विकृष्य उत्पाटय ॥ १७ ॥ विजज्वाल, चुकोपेति यावत् ॥ १८ ॥ ते शक्रादयः । प्रजापतेः प्रजापतये ॥ १९ ॥ दौरात्म्यं प्रपञ्चयति - प्रजानामित्यादि ॥ २० ॥ एवम् इदानीं क्रियमाणप्रकारेण यदि भक्षयिष्यतीत्यन्वयः ॥ २१ ॥ प्रकृत्या ह्येष तेजस्वी स्वभावतः पराभिभवन सामर्थ्यवान ।। १२- २३ ।। स० - शूलपाणि विरूपाक्षं विरूपे विकते भक्षिणी यस्य स तथा तम् । विरूपाक्षं शूलपाणि रुद्रमिवेति वा ॥ ११ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy