SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ १८९॥ स० ६१ वा.रा.भू.अथ रामेण कुम्भकर्णस्वरूपप्रश्नः विभीषणेन तदुत्तरं च क्रियत एकषष्टितमे- तत इत्यादिसार्धश्लोकद्वयमंकान्त्रयम्। तं दृष्ट्वा धनुरादाय पुनर्विशेषेण टी. यु.का. ददर्शति योजना काम उन्नतकायन । पर्वताकारदर्शनम् दृश्यत इति दर्शनं शरीरम्, पर्वतवत् स्थूलशरीरमित्यर्थः । काञ्चनाङ्गदभूषणं काञ्चन मयाङ्गदभूषणम् । अत एव सतोयाम्बुदः वर्षुकमेघः तत्सदृशम् ॥ १ ॥ २ ॥ इत्यर्धम् । कुम्भकर्णमिति शेषः ॥ ३ ॥ सविस्मयमिति क्रिया ततो रामो महातेजा धनुरादाय वीर्यवान् । किरीटिनं महाकार्य कुम्भकर्णे ददर्श ह ॥ १ ॥ तं दृष्ट्वा राक्षस श्रेष्ठं पर्वता कारदर्शनम् । क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् । सतोयाम्बुदसङ्काशं काञ्चनाङ्गदभूषणम् ॥ २ ॥ दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ॥ ३ ॥ विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम् । सविस्मयमिदं रामो विभीषण मुवाच ह ॥ ४ ॥ कोऽसौ पर्वतसङ्काशः किरीटी हरिलोचनः । लङ्कायां दृश्यते वीर सविद्युदिव तोयदः ॥ ५ ॥ पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते । यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ॥ ६ ॥ आचक्ष्व मे महान को सौ रक्षो वा यदि वाऽसुरः । न मयैवंविधं भूतं दृष्टपूर्वं कदाचन ॥ ७ ॥ स पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा । विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ॥ ८ ॥ येन वैवस्वतो युद्धे वासवश्च पराजितः । सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् । अस्य प्रमाणात सदृशो राक्षसोऽन्यो न विद्यते ॥ ९॥ एतेन देवा युधि दानवाश्च यक्षा भुजङ्गाः पिशिता शनाश्च । गन्धर्वविद्याधर किन्नराश्च सहस्रशो राघव सम्प्रभग्नाः ॥ १० ॥ Acharya Shri Kailassagarsuri Gyanmandir | विशेषणम् । वर्धमानमिति । कामरूपत्वादिति भावः ॥ ४ ॥ हरिलोचनः कपिलेक्षणः । " हरिर्ना कपिले त्रिषु " इत्यमरः ॥ ६-८ ॥ येनेत्यादि । सैष इत्यत्र " सोऽचि लोपे चेत् पादपूरणम् " इति सुलोपः । प्रमाणं स्थौल्यौन्नत्ये ॥ ९ ॥ सम्प्रभग्नाः अभज्यन्त ॥ १० ॥ ततो राम इत्यादि श्लोकद्वयमेकं वाक्यम् । रामः पुरा आकाशं क्रममाणं नारायणमिव पर्वताकारदर्शनं तं राक्षसश्रेष्ठं दृष्ट्वा धनुरादाय किरीटिनं महाकायं कुम्म कर्णे ददर्शेति योजना । यद्वा तं दृष्ट्वेति श्लोको भिन्नं वाक्यम् । आकाशं क्रममाणं प्रभुं नारायणमित्र पर्वताकारदर्शनं तं राक्षसश्रेष्ठं दृष्ट्वा रामः, यत्तो बभूवेति शेषः ॥ १-४ ॥ कोऽसाविति । हरिलोचनः कपिलेक्षणः ॥ ५-११ ॥ For Private And Personal Use Only ॥ १८९॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy