________________
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
बलसमीरणं बलवर्धनम् ॥ ९२ ॥ रावणाज्ञया त्वरितास्ते क्षिप्रम् उपहारयन् उपाहारयन्निति संबन्धः ॥ १३॥ ईषत्समुत्कटः पानेन ईपन्मदोत्कटः। लमत्तः स्वभावेनोन्मत्तश्चेत्यर्थः । कालान्तकयमोपमः काले प्रलयकाले योऽन्तकः संहारको यमस्तत्सदृश इत्यर्थः॥ ९॥ रक्षोबलं राक्षससेना ॥ ९५ ॥
प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः। पिपासुस्त्वरयामास पानं बलसमीरणम् ॥ ९२॥ ततस्ते त्वरितास्तस्य राक्षसा रावणाज्ञया। मद्यकुम्भांश्च विविधान क्षिप्रमेवोपहारयन् ॥ ९३ ॥पीत्वा घटसहने दे गमनायोपचक्रमे । ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः। कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः ॥ ९४ ॥ भ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितः । कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ ९५॥ स राजमार्ग वपुषा प्रकाशयन् सहस्ररश्मिधरणीमिवांशुभिः। जगाम तत्राअलिमालया वृतः शतक्रतुर्गेहमिव स्वयम्भुवः ॥९६॥ तं राजमार्गस्थ ममित्रघातिनं वनौकसस्ते सहसा बहिःस्थिताः । दृष्ट्वाऽप्रमेयं गिरिशृङ्गकल्पं वितत्रसुस्ते हरियूथपालाः ॥ ९७ ॥ केचिच्छरण्यं शरणं स्म रामं व्रजन्ति केचिद्यथिताः पतन्ति । केचिद्दिशः स्म व्यथिताः प्रयान्ति केचिद्भयार्ता भुवि शेरते स्म ॥९८॥ तमद्रिशृङ्गप्रतिमं किरीटिनं स्टशन्तमादित्यमिवात्मतेजसा । वनौकसः प्रेक्ष्य विवृद्धमद्भुतं
भयार्दिता दुविरे ततस्ततः॥ ९९ ॥ इत्याचे श्रीरामायणे वाल्मीकीये. श्रीमद्युद्धकाण्डे षष्टितमः सर्गः ॥६॥ तत्र राजमार्गे । अनलिमालया, पौरजनकृतयेति शेषः ॥ ९६ ॥ यूथपाला इत्यत्र चकारो द्रष्टव्यः । अन्यथा तच्छब्दोऽतिरिच्येत ॥ ९७ ॥ ९८॥ आत्मतेजसा शरीरकान्त्या ॥ ९९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षष्टितमः सर्गः ॥६॥ प्रक्षाल्येति । बलसमीरणं बलप्रवृद्धिकरम् ॥ ९२ ॥१३॥ईपत्समुत्कटो मत्तः मधुपानेन ईषदेव समुत्कटो मत्तश्चेत्यर्थः ॥ ९४-९६ ॥ तं राजमार्गस्थमिति । अत्र चशब्दोऽध्याहर्तव्यः, अन्यथा तच्छन्दोऽतिरिच्येत । ते बनौकसः ते हरिपूथपाश्च तं दृष्ट्वा वितत्रवरिति सम्बन्धः ॥९७-५९ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्वदीपिकाख्यायर्या युद्धकाण्डव्याख्यायां षष्टितमः सर्गः ॥१०॥
२.२
For Private And Personal Use Only