________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू.
टी.यु.कां. ..
॥१८७॥
ततास्त्वत्याद । अदशयन्, राक्षसा इति शेषः। सवान् सर्वविधान् । तवान्तरभेदतो विविधान् बहून् विपुलान् । वराहान् वराह विकारान् । बभक्ष भिक्षयामास । बुभुक्षितो मांसमदन बुभुक्षाशान्त्यर्थ मांसमदन्नित्यर्थः । तृषितः शोणितं पिबन तृष्णाशान्त्यर्थ शोणितं पिबन्नित्यर्थः । पुनराप्याय नार्थ मेद कुम्भान मद्यं च पपौ । कुम्भपरिमितमेदासीत्यर्थः ॥ ६३ ।। ६४ ॥समुत्पेतुरिति । पूर्व कुम्भकर्णभयादन्तीय स्थिताः, इदानीं तृप्तत्वेन
ततस्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधान् बहून् । वराहान महिषांश्चैव स बमक्ष महाबलः ॥६३॥ अदन बुभु क्षितो मांसं शोणितं तृषितः पिबन् । मेद कुम्भांश्च मद्यं च पपौ शक्ररिपुस्तदा ॥६४ ॥ ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः । शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ॥६५॥ निद्राविशऽदनेत्रस्तु कलुषीकृतलोचनः । चारयन सर्वतो दृष्टिं तान ददर्श निशाचरान् ॥६६॥ स सर्वान् सान्त्वयामास नैर्ऋतान्नैर्ऋतर्षभः ! बोधनाद विस्मितश्चापि राक्षसानिदमब्रवीत् ॥ ६७ ॥ किमर्थमहमादृत्य भवद्भिः प्रतिबोधितः । कच्चित् सुकुशलं राज्ञो भयवानेष वा न किम् ॥६८॥ अथवा ध्रुवमन्येभ्यो भयं परमुपस्थितम् । यदर्थमेवं त्वरितैर्भवद्भिः प्रतिबोधितः ॥६९॥ अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् । पातयिष्ये महेन्द्रं वा शातयिष्ये तथाऽनलम् ॥७०॥ न
ह्यल्पकारणे सुप्तं बोधयिष्यति मां गुरुः । तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् ॥ ७१॥ शान्तकोधत्वात् प्रकाशमाजग्मुरित्यर्थः ॥६५॥ निद्रया अविशदे अप्रसन्ने ईषदुन्मीलिते नेवे यस्य स तथोक्तः ॥ ६६ ॥ स इति । बोधनात् अप्रबोध्य | बोधनात् ॥६७। राज्ञः रावणस्य सुकुशलं कच्चित्, एष राजा च भयवान किम् भययुक्तो न भवति हि ? ॥६८॥ एवं संशय्य पुनर्निश्चिनोति-अथवेति ।। तत्र हेतुमाह यदर्थमिति । यदर्थ यद्यनिवृत्त्यर्थम् ॥६९॥ शातयिष्ये शातयिष्यामि, छेत्स्यामीत्यर्थः। "शदूल शातने" इति धातोणिचि "शदेरगतो त" इति तादेशः ॥७०॥ अल्पकारणे अल्पकार्यनिमित्तम् । गुरुः अग्रजः। आख्यात कथयत । अर्थतत्त्वेन तत्त्वार्थेन, याथायनेति यावत् ॥ ७१ ॥७२॥ निद्रेति । निद्राविशदनेत्रः निद्रया अविशदे ईषदुन्मीलिते नेत्रे यस्य सः ॥ ६६-६८ ॥ अन्येभ्यः शत्रुभ्यः । यदर्थ यध्यसननिवृत्तये ॥ १९ ॥ ७० ॥ अर्थतत्त्वेन
For Private And Personal Use Only