________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
-
-
*
- - - - - -
-
-
बन्धनानि च तैर्बद्धाभिः, रज्जुबन्धनादिना दृढीकृताभिरित्यर्थः । शताभिः गदाविशेपैः । वध्यमानः पीयमानः ॥५५॥ वारणानामिति । स्पर्श पर मबुध्यत वारणप्रधाननं केवलस्पर्शमबुध्यत, कीटादिस्पर्शीऽयमिति मन्यते स्म । बुद्धः विरतनिद्रः ॥ ५६॥ स पात्यमानैरिति । पात्यमानैः प्रबोघे प्युत्थानाय पुनः क्षिप्यमाणैः । क्षुद्भयपीडितः क्षुद्भयाभ्यां पीडितः । भयमत्राकालबोधनकृतम् । क्षुद्रूपभयपीडित इति वा । विजृम्भमाणः गात्रभङ्गं
वारणानां सहस्रं तु शरीरेऽस्य प्रधावितम् । कुम्भकर्णस्ततो बुद्धः स्पर्श परमवुध्यत ॥५६॥ स पात्यमानगिरि शृङ्गवृक्षरचिन्तयंस्तान विपुलान प्रहारान् । निद्राक्षयात् क्षुद्भयपीडितश्च विजृम्भमाणः सहसोत्पपात ॥ ५७॥ स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू गिरिशृङ्गसारौ। विवृत्य वकं वडवामुखाभ निशाचरोऽसौ विकृतं जजृम्भे ॥५८॥ तस्य जाजृम्भमाणस्य वकं पातालसन्निभम् । ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः॥ ५९॥ स जृम्भ माणोऽतिवलः प्रतियुद्धो निशाचरः। निःश्वासश्वास्य सञ्जज्ञे पर्वतादिव मारुतः ॥६०॥ रूपमुत्तिष्ठतस्तस्य कुम्भ कर्णस्य तद्वभौ । तपान्ते सबलाकस्य मेवस्येव विवर्षतः ॥६॥ तस्य दीप्तानिसदृशे विद्युत्सदृशवर्चसी ।
ददृशाते महानेत्रे दीप्ताविव महाग्रही ।। ६२॥ कुर्वाणः । उत्पपात उदतिष्ठत् ॥५७॥ विजृम्भमाण इत्युक्तं विवृणोति-स इति । देध्ये नागभोगदृष्टान्तः, काठिन्ये अवलशृङ्गदृष्टान्तः । यद्वा पीनने दृष्टान्तः। गिरिशृङ्गसारौ गिरिशृङ्गबलौ। “सारो बले स्थिरांशे च" इत्यमरः । विवृत्य व्यादाय । वडवा समुद्रमध्यवर्तिन्यश्वस्त्री । विकृतं भयङ्करं यथा भवति तथा ॥५८॥ जाजृम्भमाणस्य । यङ्लुक्यात्मनेपदरुगागमाभावावाो । मेरुशृङ्गाने । मेरुरत्र सावर्णिमेरुः तदग्रस्यैव सूर्यसम्बन्धसम्भवात् ।। अब दिवाकरस्योदितत्वं महामेरोरुत्तरभागस्थपुर्यपेक्षया । यदा उदितः दृष्ट इत्यर्थः । गत्यर्थानां बुद्ध्यर्थत्वात् ॥ ५९॥ प्रतिबुद्धः, अभूदिति शेषः। सम्यक् प्रबोधोत्र विवक्षितः॥६॥ तस्य साभरणस्येत्यर्थः । अतः सबलाकस्येति नाधिकोपमा । विवर्पत इति नीलरूपातिशयोक्तिः ॥६१॥ वियु त्सदृशवर्चसी इति निद्राविरामकालिकचाञ्चल्योक्तिः । महाग्रहो शन्यागारकाविति परपीडकत्वोक्तिः । दीप्तानिसहशे इति क्रौर्यातिशयोक्तिः ॥ २॥ आसक्तानां राक्षसगृहीतानाम् ॥ ४१-५८ ॥ तस्येति । जाजृम्भमाणस्प पुनः पुनर्जुम्नमाणस्य ॥ ५९-६५ ॥
- - - - - -
For Private And Personal Use Only