SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वा.रा.भू. ॥१८५॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुम्भकर्णगुहां प्रविश्य निश्वासादवधूताः सन्तः कृच्छ्रेण प्रतिष्ठमानाः अभिमुखं गच्छन्तः यत्नात्तां गुहां विविशुरिति योजना ॥ २४ ॥ २५ ॥ काञ्चन कुट्टिमां स्वर्णमयनिबद्धभूमिम् ॥ २६ ॥ विकृतं निद्राकालिकविकारयुक्तम् । विकीर्ण शिथिलम् ॥ २७ ॥ ऊर्ध्वत्यादिश्लोकत्रयमेकान्वयम् । ऊर्ध्व तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम् । ददृशुर्नैर्ऋतव्याघ्रं शयानं भीमदर्शनम् ॥ २६ ॥ ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् । कुम्भकर्ण महानिद्रं सहिताः प्रत्यबोधयन् ॥ २७ ॥ ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् | त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् ॥ २८ ॥ भीमनासापुटं तं तु पातालविपुलाननम् । शय्यायां न्यस्तसर्वाङ्गं मेदोरुधिरगन्धिनम् ॥ २९ ॥ काञ्चनाङ्गदनद्धाङ्गं किरीटिनमरिन्दमम् । ददृशुर्नैर्ऋतव्यात्रं कुम्भकर्णे महाबलम् ॥ ३० ॥ ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा। मांसानां मेरुसङ्काशं राशिं परमतर्पणम् ॥ ३१ ॥ मृगाणां महिषाणां च वराहाणां च सञ्चयान्। चक्रुर्नैर्ऋतशार्दूला राशिमन्नस्य चाद्भुतम् ॥ ३२ ॥ ततः शोणित कुम्भश्च मद्यानि विविधानि च ॥ ३३ ॥ पुरस्तात् कुम्भकर्णस्य चक्रस्त्रिदशशत्रवः । लिलिपुश्च परार्ध्येन चन्दनेन परन्तप ॥ ३४ ॥ दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः । धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परन्तपम् ॥ ३५ ॥ जलदा इव चोन्नेदुर्यातुधानास्ततस्ततः । शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् । तुमुलं युगपच्चापि विनेदुश्चाप्य मर्षिताः ॥ ३६ ॥ नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः । कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् ॥ ३७ ॥ रोमाञ्चिततनुम् ऊर्ध्वभूतरोमव्याप्ततनुम् । भीमनासापुटं भयङ्करनासारन्धम् । मेदोरुधिरेति, पीतावशिष्टेति शेषः ॥ २८-३० ॥ अग्रतश्चक्कुः पुरत श्चिक्षिपुरित्यर्थः । परमतर्पणम् अत्यन्ततृप्तिकरम् ॥३१॥ राशि चक्रुः अग्रतो राशि चक्रुरित्यर्थः ॥ ३२ ॥ मद्यानि मद्यकुम्भानीत्यर्थः ॥ ३३ ॥ लिलिपुः |लेपनं चक्रुः । परार्थेन श्लाघ्यगन्धेन ॥ ३४ ॥ माल्यगन्धैः माल्यचन्दनैः ॥ ३५ ॥ ततस्ततः पुनः पुनरित्यर्थः । तुमुलं निरन्तरं यथा तथा। युगपद्विनेदुः अमर्षिताः महता प्रयत्नेनाप्यनुत्थानाज्जातकोघाः सन्तः नेदुः || ३६ | आस्फोटयामासुः ताडयामासुः । चिक्षिपुः शरीरं कम्पयामासुः । कुम्भेति करिष्यामीति सम्बन्धः ॥ २१-२५ ॥ काथनकुट्टिमां काञ्चननिबद्धभुवम् ।। २६-३३ ।। लिलिपुः लेपनं चक्रुः कुम्भकर्णशरीरं लेपयामासुरित्यर्थः ॥ ३४-३७ ॥ For Private And Personal Use Only टी. यु.का. [स० ६० ।। १८५॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy