________________
Shn Mahavir Jain Aradhana Kendra
www.kcbatrh.org
Acharya Shri Kalassagarsun Gyanmandir
पा.स.भ.
टी.यु.का. स०६०
॥१८४RAH
नन्तरं प्रहस्तयुद्धमविलम्बन तस्मिन्नेव दिने मध्याह्ने। ननु, 'अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे' इति ग्रहाणां प्रकाशप्रतिषेधेन प्रहस्तयुद्धं रात्राविति चेन्न, उत्तरत्र दिवायुद्धेषु दिवादर्शनायोग्यानामप्यर्थानां प्रतिपादनाद । यया रावणयुद्धे-"प्राजापत्यं च नक्षत्रं रोदिणी शशिनः प्रियाम् । समाकम्य बुधस्तस्थौ प्रजानामशुभावहः" इत्यादि । न च 'सर्वरात्रमवर्तत' इति पाठानुराधादात्रावेव तत्प्रतिपादन मिति वक्तुं शक्यम्; तदप पाठत्वस्यान्ते वक्ष्यमाणत्वात् । तस्मिन्नेव द्वितीयदिने रावणपराजयकुम्भकर्णप्रबोधनकुम्भकर्णयुद्धानि । कालविशेषमसङ्कीयानन्तरमविच्छेदेन तदुक्ति पूर्वकमग्रिमकृत्ये ब्रह्मास्त्रबन्धनतद्विमोक्षरूपे कालविशेषकीर्तनात् । दृश्यते हि-" सप्तयष्टिर्हताः कोटयो वानराणां तरविनाम् । अह्नः पञ्चमशेषेण । वल्लभेन स्वयम्भुवः" इति । अत्र अह्नः पञ्चमशेपो नाम सायंकाल एव । “प्रातःसङ्गावमध्याह्नापराहा सायमित्यमी । एकस्याह्नः पञ्च भागा विदिताः। कालचिन्तकैः ॥” इति वचनात् । तस्यामेव द्वितीयायां रात्री ब्रह्मास्त्रविमोक्षानन्तरं पुनर्लङ्कानिरोधतद्दाहकुम्भनिकुम्भयूपाक्षशोणिताक्षप्रजवाकम्पन मकराक्षवधाः। "ततोऽस्तगत आदित्ये रात्रौ तस्मिन्निशामुखे । लङ्कामभिमुखास्तोल्का जग्मुस्ते पूवर्षभाः॥" इत्युक्तेः। एवं परिपूर्णदिनद्येन मूल बलेन्द्रजिद्रावणव्यतिरिक्तेषु व्यपदिष्टराक्षसेषु हतेषु तृतीयदिनमारभ्य दिनत्रयेणेन्द्रजियुद्धम्, "अहोरास्त्रिभिर्वीरः कथंचिद्विनिपातितः" इत्युक्त त्वात् । अथ पष्ठदिने मूलबलवधः । तस्मिन् दिने सायंकालमारभ्य दिवाराचं रावणयुद्धम् । सप्तमदिने रावणवधः । अथवा सप्तमदिने रावणयुद्धम् ।
अष्टमदिने प्रातःकाले रावणवधः । “ अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम् । कृता निर्याद्यमावास्यां विजयाय बलैर्वृतः।।" इत्यादिसन्दर्भस्योभय । तथापि योजयितुं शक्यत्वात् । पुच्छामावास्यायो रावणवध इति कृत्वा अमावास्यायो रावणवध इति प्रवादः। एवं सति "रामरावणयोयुदं सप्तरात्रमवर्तत"
इत्यादिपाठोऽपि सेनासहितरावणयुद्धापेक्षया सङ्गच्छते। " मन्त्रयित्वा प्रसुप्तोऽयमितस्तु नवमऽहनि" इति सकलकोशस्थितवचनं च सङ्गच्छते । इतः अस्मादिनात् मम मुकुठभङ्गदिनादित्यर्थः। नवमेऽहनि एतदिनमपहाय एतत्पूर्वदिनापेक्षया नवमेऽहनि ।मन्वयित्वा प्रसुप्तः। तत्पूर्वदिने मन्त्रं कृत्वा तस्मिन् दिने प्रसुप्त इत्यर्थः । ननु हनुमतो लङ्काप्रवेशकालो दशममास इत्यवगम्यते । तथाहि सीतां प्रति रावणवचनम्-" द्वौ मासो रक्षितव्यो मे योऽयधिस्ते मया कृतः” इति । हनुमन्तं प्रति सीतावचनं च-"दो मासौ तेन मे कालो जीवितानुग्रहः कृतः । वर्तते दशमो मासो दौ तु शेषो पूवङ्गम" इत्यादि । अतः | निशास्तिस्रोऽतिचक्रमुः' इत्युक्तत्वात । तदनन्तरं पञ्च दिनेषु सेतुबन्धः । सेतुबन्धपरिपूर्तिदिवस पर सायंकाले समुद्तरणम् ' गरुडम्यूहमास्थाय । तीरे निविषिशे राज्ञा' इत्याधुक्तत्वात् । तदनन्तरदिने सुबेलारोहणम्, रात्री तत्रावस्थानं च" तो राविमुषिनास्तत्र सुवेले हरिपुङ्गवाः" इत्युक्तत्वात् । तदनन्तर
-
॥१४॥
For Private And Personal Use Only